पूर्वम्: ६।२।३
अनन्तरम्: ६।२।५
 
सूत्रम्
गाधलवणयोः प्रमाणे॥ ६।२।४
काशिका-वृत्तिः
गाधलवनयोः प्रमाणे ६।२।४

प्रमाणवाचिनि तत्पुरुषे समासे गाध लवण इत्येतयोरुत्तरपदयोः पूर्वपदं प्रकृतिस्वरं भवति। शम्बगाधमुदकम्। अरित्रगाधमुदकम्। तत्प्रमाणम् इत्यर्थः। गोलवणम्। अश्वलवणम्। अश्वलवणम्। यावद् गवे दीयते तावदित्यर्थः। षष्ठीसमासा एते। तत्र शमेर्बनिति बन्प्रत्ययान्तत्वाच् छम्बशब्द आद्युदात्तः। अरित्रशब्दः अर्तिलूधूसू इति इत्रप्रत्ययान्तो मध्योदात्तः। गोशब्दो डोप्रत्ययान्तः अन्तोदातः। अश्वशब्दो अशूप्रुषिलटिकणिखतिविशिभ्यः क्वनिति क्वन्प्रत्ययान्तः आद्युदात्तः। प्रमाणम् इयत्तापरिच्छेदमात्रम् इह द्रष्टव्यं न पुनरायाम एव। स्वरव्यङ्ग्यं च प्रमानविशेषविषयत्वम् एतेषाम्। प्रमाणे इति किम्? परमगाधम्। परमलवणम्।
न्यासः
गाधलवणयोः प्रमाणे। , ६।२।४

"शम्बगाधम्()" इति। गाध्यत इति गाधः, "गाधृ "प्रतिष्ठालिप्सयोः" (धा।पा।४) [प्रतिष्ठालिप्सयोग्र्रन्थे च--धा।पा।] अर्धर्चादित्वात्? २।४।३१ पक्षे नपुंसकत्वम्()। "अर्तिलूधूसू" इति। अनेन सूत्रैकदेशेन "अर्तिलूधूसूखनसहचर इत्रः" ३।२।१८४ इत्येतत्सूत्रमुपलक्ष्यते। "मध्योदात्तः" इति। प्रत्ययस्वरेण। "अशूप्रुषि" इति। "अशूप्रुषिलटिकणिघटिविशिभ्यः कन्()" (द।उ।८।१२५) [अशूप्रुषिप्लुषिलटिकटिकणिखटिविशिभ्य) क्वन्()--द।उ।] इति सूत्रमुपलक्षयति। ननु चायामः=प्रमाणम्(), "आयामस्तु प्रमाणं स्यात्()" इति वचनात्(); न च शम्बगाधमित्यादिस्तत्पुरुषः प्रमाणवाची, किं तर्हि, इयत्तावाची? इत्याह--"प्रमाणम्()" इत्यादि। इयतो भाव इयत्ता, सा परिच्छिद्यते येन स इयत्तापरिच्छेदः, स एवात्र प्रमाणं वेदितव्यम्()। न पुनरायाम एव। तत्? कथम्()? प्रमीयतेऽनेनेति प्रमाणमिति क्रियाशब्दोऽत्र प्रमाणशब्दो गृह्रते, न तु रूढिशब्दः; लक्ष्यानुरोधात्()। तेन येनेयत्ता परिच्छिद्यते तत्? सर्वं प्रमाणम्()। "स्वरव्यङ्ग्यं च" इति। अस्य स्वरे योऽयं प्रकृतिभावो विधीयते तेन व्यङ्ग्यं द्योत्यमित्यर्थ-। "एतेषाम्()" इति। शम्बगाधादीनाम्()॥