पूर्वम्: ६।२।७९
अनन्तरम्: ६।२।८१
 
सूत्रम्
उपमानं शब्दार्थप्रकृतावेव॥ ६।२।८०
काशिका-वृत्तिः
उपमनं शब्दार्थप्रकृतावेव ६।२।८०

उपमानवाचि पूर्वपदं शब्दार्थंप्रकृतौ एव णिनन्ते उत्तरपदे आद्युदात्तं भवति। उपमानं नियम्यते। उष्ट्रक्रोशी। ध्वाङ्क्षरावी। खरनादी। उपमानग्रहनम् अस्य पूर्वस च योगस्य विषयविभागार्थम्। शब्दार्थप्रकृतौ इति किम्? वृकवञ्ची। वृकप्रेक्षी। प्रकृतिग्रहणं किम्? प्रकृतिरेव यत्र उपसर्गनिरपेक्षा शब्दार्था भवति तत्र एव यथा स्याद्, इह मा भूद् गर्दभोच्चारी, कोकिलाभिव्याहारी इति। एवकारकरणम् उपमानावधारणार्थम्। शब्दार्थम्। शब्दार्थप्रकृतौ त्वनुपमानमुपमानं च आद्युदात्तं भवति। सिंहविनर्दी। पुष्कलजल्पी।
न्यासः
उपमानं शब्दार्थप्रकृतावेव। , ६।२।८०

"शब्दार्थप्रकृतौ" इति। शब्दार्थः प्रकृतिर्यस्मिन्निति बहुव्रीहिः। "उपमानं नियम्यते" ति। यत एवकारस्ततोऽन्यत्रावधारणं भवति। इह च शब्दार्थप्रकृतेरेवकारः, तस्मादुपमाननियमो भवति, अतस्तन्नियम्यते। "उष्ट्रकोशी" इति। "क्रुश आह्वाने" (धा।पा।८५६) [आह्वाने रोदने च--धा।पा।] इत्यस्मात्? "कत्र्तर्युपमाने" ३।२।७९ इति णिनिः। णिनिनैव सादृश्यस्योक्तत्वाद्वृत्ताविवशब्दो न प्रयुज्यते। "ध्वाङ्क्षरावी" इति। "रु शब्दे" (धा।पा।१०३४) पूर्वलक्षणाण्णिनिः। "खरनादी" इति। "णद अव्यक्ते शब्दे" (धा।पा।५४)। "उपमानग्रहणम्()" इत्यादि। यद्युपमानग्रहणं न क्रियते, तदा पूर्वस्य योगस्यास्य च विषयविभागो न ज्ञायेत। यदि योगविभागकरणसामथ्र्याद्विषयान्तरम्य कल्प्येत, तथापीष्टो विषयविभागो न ज्ञायेत। उपमानग्रहणे तु सति पूर्वस्य सामान्यं विषयः, अस्य तु विशेष उपमानमिति विषयविभागो निश्चीयेत। तेन विषयविभागार्थमुपमानग्रहणम्()। "वृकवञ्ची" इति। "वञ्चु प्रलम्भने" (धा।पा।१७०३)। "वृकप्रेक्षी" इति। "ईक्ष दर्शने" (धा।पा।६१०) प्रपूर्वः। अत्र कृत्स्वर एव भवति। "प्रकृतिरेव" इत्यादि। यदि प्रकृतिग्रहणं न क्रियेत, तदा शब्दार्थात्? परो यो णिनिस्तदन्त उत्तरपद इत्येवं विज्ञायेत? ततश्च गर्दभोच्चारी कोकिलाभिव्याहारीत्यस्यापि स्यात्(); भवति ह्रत्रापि धातूपसर्गसमुदायाच्छब्दार्थात्? परो णिनिः, अतस्तदन्तमुततरपदम्()। तस्मादिह मा भूदिति प्रकृतिग्रहणं क्रियते, तेनेह न भवति। प्रकृतिग्रहणे सति यत्रोपसर्गनिरपेक्षा गत्यर्थत्वात्(), हरतेश्च हरणार्थत्वात्()। यद्वा--योऽत्र शब्दार्थो धातूपसर्गसमुदायः, न तस्माण्णिनेर्विधानम्()। यदि पूर्वेणैव सिद्धे नियमार्थं वचनम्(), एवं सिद्धे विधिरारभ्यमाणो नियमाय भवतीत्यनर्थकमेवकारकरणम्()? इत्याह--"एवकारकरणम्()" इत्यादि। असति ह्रेवकार उपमान एव शब्दार्थप्रकृतावित्येवमवधारणं स्यात्(), ततश्च शब्दार्थप्रकृतिरेव नियम्येत--शब्दार्थप्रकृतौ यदि भवत्युपमान एव भवति, नानुपमान इति। ततश्चानुपमाने न स्यात्()। तस्मादुपमानावधारणं यथा स्यादित्येवमर्थमेवकारः क्रियते। किं कारणम्()? इत्याह--"शब्दार्थप्रकृतौ तु" इत्यादि। तुशब्दो हेतौ। तस्मात्? शब्दार्थप्रकृतावुपमानमनुपमानं चाद्युदात्तं भवति। तस्मादुपमानावधारणार्थमेवकारकरणम्()। उपमाननियमे हि सति शब्दार्थप्रकृतेरनियतत्वात्? तत्राविशेषेण सर्वस्याद्युदात्तत्वं लभ्यते। "सिंहविनर्दी" इति। उपमानस्योदाहणम्()। "पुष्कलजल्पी" इति। अनुपमानस्य। पुष्कलजल्पीत्यत्र "व्रत्ते" ३।२।८० "बहुलमाभीक्ष्ण्ये" ३।२।८१ इति वा णिनिः॥