पूर्वम्: ६।३।९८
अनन्तरम्: ६।३।१००
 
सूत्रम्
अर्थे विभाषा॥ ६।३।९९
काशिका-वृत्तिः
अर्थे विभाषा ६।३।१००

अर्थशदे उत्तरपदे अन्यस्य विभाषा दुगागमो भवति। अन्यदर्थः, अन्यार्थः।
न्यासः
अर्थे विभाषा। , ६।३।९९

"अन्यार्थः" इति। अन्यस्मै इदमिति "चतुर्थी तदर्थार्थ" २।१।३५ इत्यादिना समासः॥
बाल-मनोरमा
अर्थे विभाषा १०११, ६।३।९९

अर्थे विभाषा। "अन्यस्य दु"गिति शेषः।