पूर्वम्: ६।३।९
अनन्तरम्: ६।३।११
 
सूत्रम्
मध्याद्गुरौ॥ ६।३।१०
काशिका-वृत्तिः
मध्याद् गुरौ ६।३।११

मध्यादुत्तरस्याः सप्तम्याः गुरावुत्तरपदे ऽलुग् भवति। मध्येगुरुः। अन्ताचेति वक्तव्यम्। अन्तेगुरुः। सप्तमी इति योगविभागात् समासः।
न्यासः
मध्याद्र गुरौ। , ६।३।१०

"अन्ताच्चेति वक्तव्यम्()" इति। अन्तशब्दाच्चोत्तरस्याः सप्तम्या अलुग्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--पूर्वयोगाच्चकारोऽनुवत्र्तते, स चानुक्तसमुच्चार्थः। तेनान्तशब्दादप्युत्तरस्याः सप्तम्या अलुग्भवतीति॥
बाल-मनोरमा
मध्याद्गुरौ ९५४, ६।३।१०

मध्याद्गुरौ। गुरुशब्दे परे मध्यशब्दात्सप्तम्या अलुक् स्यादित्यर्थः। असंज्ञार्थमिदम्।

अन्ताच्चेति। सप्तम्या अलुक्स्याद्गुरौ परे इत्यर्थः।