पूर्वम्: ६।३।११७
अनन्तरम्: ६।३।११९
 
सूत्रम्
मतौ बह्वचोऽनजिरादीनाम्॥ ६।३।११८
काशिका-वृत्तिः
मतौ बह्वचो ऽनजिरादीनाम् ६।३।११९

मतौ परतो बह्वचो ऽजिरादिवर्जितस्य दीर्घो भवति संज्ञायाम् विषये। उदुम्बरावती। मशकावती। वीरणावती। पुष्करावती। अमरावती। नद्यां मतुप् ४।२।८४ इति मतुप्प्रत्ययः। संज्ञायाम् ८।२।११ इति मतोर्वत्वम्। बह्वचः इति किम्? व्रीहिमती। अनजिरादीनाम् इति किम्? अजिरवती। खदिरवती। पुलिनवती। हंसकारण्डववती। चक्रवाकवती। संज्ञायाम् इत्येव, वलयवती।
न्यासः
मतौ बह्वचोऽनजिरादीनाम्?। , ६।३।११८

"व्रीहिमती" इत्यादौ पूर्ववन्मतुप्। "वलयवती" इत्यत्र तु "तदस्यास्त्यस्मिन्निति मतुप्()" ५।२।९३
बाल-मनोरमा
मतौ बह्वचोऽनजिरादीनाम् १०२६, ६।३।११८

मतौ। मतुप्प्रत्यये परे बह्वचो दीर्घः स्यात्संज्ञायां, न त्वजिरादीनामित्यर्थः। अमरावतीति। इन्द्रनगर्याः संज्ञेयम्। अमरा अस्यां सन्तीति विग्रहः। "मादुपधायाश्चे"ति, "संज्ञाया"मिति वा मस्य वः। अजिरवतीति। नदीविशेषस्य संज्ञेयम्। वलयवतीति। अनजिरादित्वेऽप्यसंज्ञात्वान्न दीर्घ इति भावः।

तत्त्व-बोधिनी
मतौ बह्वचोऽनजिरादीनाम् ८६५, ६।३।११८

अमरावतीति। "मादुपधायाश्चे"ति, "संज्ञाया"मिति वा मतोर्मस्य वः। घञ्मात्रस्योत्तरपदत्वाऽसंभवादाह--