पूर्वम्: ६।३।२९
अनन्तरम्: ६।३।३१
 
सूत्रम्
उषासोषसः॥ ६।३।३०
काशिका-वृत्तिः
उषासाउषसः ६।३।३१

उषसः उषासा इत्ययम् आदेशो भवति देवताद्वन्द्वे उत्तरपदे। उषासासूर्यम्। उषासानक्ता।
न्यासः
उपासोषसः। , ६।३।३०

"आनङोऽपवादः" [नास्तीदं वाक्यं काशिकायाम्()] इति एवमुत्तरावपि योगौ। उषासानक्तम्()" इति। उषांश्च नक्तञ्चेति विग्रहः॥
तत्त्व-बोधिनी
उषासोषसः ७९३, ६।३।३०

उषासासूर्यमिति। उषाश्च सूर्यश्च तयोः समाहारः। मातरपितरौ। मातृशब्दस्याऽरङादेशो निपात्यते।