पूर्वम्: ६।३।६६
अनन्तरम्: ६।३।६८
 
सूत्रम्
इच एकाचोऽम्प्रत्ययवच्च॥ ६।३।६७
काशिका-वृत्तिः
इच एकाचो ऽम्प्रत्ययवच् च ६।३।६८

इजन्तस्य एकाचः खिदन्ते उत्तरपदे अमागमो भवति, अम्प्रत्ययवच् च द्वितीयैकवचनवच् च स भवति। अम् इति हि द्विरावर्तते। गाम्मन्यः। स्त्रीम्मन्यः, स्त्रियम्मन्यः। श्रियम्मन्यः। भ्रुवम्मन्यः। अम्प्रत्ययवच् च इत्यतिदेशातात्वपूर्वसवर्णगुणेयङुवङादेशा भवन्ति। इचः इति किम्? त्वङमन्यः। एकाचः इति किम्? लेखाभ्रुम्मन्याः। अथेह कथं भवितव्यम्, श्रियम् आत्मानं ब्राह्मणकुलं मन्यते इत्युपक्रम्य श्रिमन्यम् इति भवितव्यम् इति भाष्ये व्यवस्थितम्? तत्र इदं भाष्यकारस्य दर्शनम्, अत्र विषये परित्यक्तस्वलिङ्गः श्रीशब्दो ब्राह्मणकुले वर्तते, यथा प्रष्ठादयः स्त्रियाम्। तत्र स्वमोर् नपुंसकात् ७।१।२३ इत्यमो लुग् भवति।
न्यासः
इच एकाचोऽम्प्रत्ययवच्च। , ६।३।६७

अत्र यदि "प्रत्ययवच्च" इत्येतावदुच्येत, तदा गाम्मन्य इत्यत्र "औतोऽम्शसोः" ६।१।९० इत्यात्त्वं न सात्(), इह च स्त्रीम्मन्य इति--अत्रापि "अमि पूर्वः" ६।१।१०३ इति पूर्वसवर्णः, इह च नरम्मन्य इति नृशब्दस्य "ऋतो ङिसर्वनामस्थानयोः" ७।३।११० इति गुणः। सामान्यातिदेशे विशेषस्यानतिदेशाद्वचनं त्वियङुवङर्थमेव केवलं स्यात्(), इयङुवङावजादौ प्रत्ययमात्रसामान्येन विधीयमानौ सामान्यातिदेशेऽपि भवत इति कृत्वा। "अम्प्रत्ययवच्च" इत्येवमुच्यमाने सत्यात्त्वादयो भवन्ति, तेषामप्यम्प्रत्यय इष्टत्वात्()। एतत्? सर्वं बुद्धौ कृत्वाह--"अम्प्रत्ययवच्च" इति। एतदेव विवृणोति--"द्वितीयैकवचनवच्च" इति। कथधं पुनरयमर्थो लभ्यते, यावतैकमम्ग्रहणम्(), तेन चाभागमो निरदिश्यते, प्रत्ययवच्चेत्येतदनिष्टं स्यात्()। अथ प्रत्ययस्तेन विशिष्यत आगमो न निर्दिष्टः स्यादित्यत आह---"अमिति हि" इत्यादि। एकमपयम्ग्रहणमारभ्यमाणं यस्मादुभयमेतत्? सम्पादयति तस्मादयमर्थो लभ्यत इत्यभिप्रायः। "श्रियम्मन्यः; भ्रूवम्मन्यः" इति। "अचिं श्नुधातु" ६।४।७७ इत्यादिने यङ्वङौ। "लेखाभ्रुम्मन्यः" इति। पूर्वसूत्रेण मुमागमः। "अथेह" इत्यादि। श्रियमात्मानं ब्राआहृणकुलं मन्यत इत्युपक्रम्य=प्रस्तुत्य खश्प्रत्यये विहिते कथं भवितव्यम्()--किं श्रियम्मन्यमति भवितव्यम्(), उत श्रिमन्यमिति? कथं पुनरेततपक्षद्वयं सम्भाव्यते, यत एवं पृच्छति? शब्दानां द्विधा प्रवृत्तिदर्शनात्()। तथा हि--केषाञ्चित्? स्वलिङ्गापरित्यागेणाप्यर्थान्तरे प्रवृत्तिर्दृष्टा, यथा भूतशब्दस्य--भूतमिथं ब्राआहृणीति; केषाञ्चित्? स्वलिङ्गपितयागेनाऽपि सा दृष्टा, यथा प्रष्ठशब्दस्य--प्रष्ठीति। तत्र श्रीशब्दो ब्राआहृणकुले वत्र्तमानो यद स्वलिङ्गं न परत्यजति, तदा श्रियम्मन्यमिति भवितव्यम्(); अथ स्वलिङ्गं परित्यजय नपुंसकलिङ्गं गृह्णाति तदा "स्वमोर्नपुंसकात्()" ७।१।२३ इत्यमो लुकि कृते "ह्यस्वो नपुंसके प्रातिपदिकस्य" १।२।४७ इति ह्यस्वत्वे च श्रिमन्यमिति भवितव्यमिति--एवमिमौ द्वावपि पक्षौ सम्भाव्येते। अत उभयपक्षसम्भवे न ज्ञायते--कथं भवितव्यम्()? अतस्तत्परिज्ञानार्थं प्रश्नः। "श्रिमन्यमिति भवितव्यमिति भाष्ये व्यवस्थापितम्()" ["स्थितम्()"--काशिका] इति। ननु च श्रीशब्दोऽयं स्त्रीलिङ्गोऽर्थान्तरेऽपि वर्तमानः स्वलिङ्गमजहदेव वत्र्तते, तथा च प्रयोगोऽपि दृश्यते--शिरो म#ए श्रीः, यशो मे श्रीरिति; तत्? कथं श्रिमन्यमिति भाष्ये व्यवस्थापितम्()? इत्याह--"तत्र" इत्यादि। यथा प्रष्ठादयः शब्दाः पुंयोगात्? स्त्रियां वर्तमानाः परत्यकतस्वलिङ्गा एव वर्तन्ते--प्रष्ठी, प्रवरी, गणकीति; तथा श्रीशब्दोऽप्यत्र कुलविषये वर्तमान इति भाष्यकारस्य मतम्()। अतसतन्मतेन "स्वमोर्नपुंसकात्()" ७।१।२३ इत्यमो लुकि कृते--श्रिमन्यमिति। ननु च नाप्राप्ते लुक्ययमारभ्यते, यथैव "सुपो धातुप्रातिपदिकयोः" २।४।७१ इतीमं लुकं बाधते, तथा "स्वमोर्नपुंसकात्()" (७।१।२३) इतीममपि लुकं बाधेत? अपि च लुगेकपदाश्रयत्वादन्तरङ्गो विपर्ययाच्चामागमो बहिरङ्गः, ततः "असिद्धं बहिरङ्गमन्तरङ्गे" (व्या।प।४२) इत्यन्तरङ्गे लुकि कत्र्तव्ये बहिरङ्गोऽमागमो नास्त्येव, तत् कुतोऽत्र लुक्()? नैष दोषः; "मध्येऽपवादाः पूर्वान्? विधीन्? बाधन्ते नोत्तरान्()" (व्या।प।१०) इति। एवमयममागमः "सुपो धातुप्रातिपदिकयोः" २।४।७१ इतीमं लुकं बाधिष्यते, न "खमोर्नपुंसकात्()" ७।१।२३ इतीमम्()। बहिरङ्गपरिभाषाप्यत्राशक्याऽ‌ऽश्रयितुम्(), इह हि दोषः स्यात्()--अरुन्तुद इति। तदाश्रयणे तु संयोगान्तलोपो न स्यात्()। संयोगान्तलोपे चान्तरङ्गे कत्र्तव्ये बहिरङ्गस्य मुमागमस्यासिद्धत्वेन संयोगान्ततानुपपत्तेः। तस्मात्? प्राप्तनिमित्ता सतीयमिह नाश्रीयते। दोषा एव हि तस्या एवमादयः॥
बाल-मनोरमा
इच एकाचोऽम्प्रत्ययवच्च ८०४, ६।३।६७

इच एकाचः। एकाच अमिति छेदः। अम् च अम् चेत्येकशेषः। एकं विदेयसमर्पकम्। "इच एकाचो"ऽमिति प्रथमं वाक्यम्। इच इत्येकाच इति च पञ्चमी। "अलुगुत्तरपदे" इत्युत्तरपदाधिकारादाक्षिप्तं पूर्वपदमिचा विशेष्यते। तदन्तविधिः। तदाह--इज्नतादेकाचोऽम्स्यादिति। मुमोऽपवादः। द्वितीयमम्पदं "प्रत्ययव"दित्येकदेशेन प्रत्ययेन समानाधिकरमं संबध्यते। असामत्र्येऽपि वतिप्रत्यय आर्षः। "अम्प्रत्ययव"दिति द्वितीयं वाक्यं संपद्यते। स्वादिप्रत्ययेषु यद्द्वितीयैकवचनं तदेवाऽत्र अमिति विवक्ष्यते, व्याख्यानात्। तदाह-- स च स्वाद्यम्वदिति। एतत्सर्वं भाष्ये स्पष्टम्। खिदन्ते पर इति। खिदन्ते उत्तरपदे परत इत्यर्थः। "खित्यनव्ययस्ये"त्यतः खितीत्यनुवर्तते इति भावः। "अम्प्रत्ययव"दित्यतिदेशसय् प्रयोजनमाह-- औतोम्शसोरिति। गाम्मन्य इति। गामात्मानं मन्यते इत्यर्थे मनेः खशि श्यन्, सुपो लुक्, गोशप्दादम्, "अम्प्रत्ययव"दित्यस्य प्रयोजनान्तरमाह-- वाऽम्शसोरिति। स्त्रियम्मन्य इति। स्त्रियमात्मानं मन्यते इत्यर्थे मनेः खशि श्यन्। सुपो लुक्। स्त्रीशब्दात् "वाऽम्शसोः" इति इयङ्()विकल्पः। अत्र यकारादकारस्य श्रवणार्थमम्विधिः। मुमि तु अकारो न श्रुयेत। स्()तरीम्मन्य इति। इयङभावपक्षे "अमि पूर्वः"। "अम्प्रत्ययव"दित्यस्य प्रयोजनान्तरमाह-- नृ - नरम्मन्य इति। "नृ"इत्यविभक्तिकम्, उदाहरणे नृशब्दस्य समावेशसूचनार्थम्। नरमात्मानं मन्यते इत्यर्थे मनेः खश्, श्यन्, सुपो लुक्, नृशब्दादम्। "अम्प्रत्ययव"दित्यतिदेशात् "ऋतोऽङी"ति गुणः। अत्राऽपि रेफादकारश्रवणार्थोऽम्विदिः। मुमि त्वकारो न श्रूयेत। "अम्प्रत्यव"दित्यस्य प्रोजनान्तरमाह-- भुवम्मन्य इति। भुवमात्मानं मन्यते इत्यर्थे मनेः खश्, श्यन्, सुपो लुक्। भूशब्दादम्, "अम्प्रत्ययव"दित्यतिदेशात् "अचि श्नुधातु" इत्युवङ्। अतिदेशाऽभावे तु उवङ् न स्यात्, तस्याऽजादिप्रत्यये विधानात्। श्रिमन्यमिति। मनेः खश्। श्यन्। अत्र मननक्रियां प्रति कुलत्वेन रूपेण कुलं कर्तृ, तस्यैव कुलस्य अध्यारोपतिश्रीत्वेन रूपेण कर्मत्वं चेति स्थितिः। एवं च श्रीशब्दस्य नित्यस्त्रीलिङ्गस्यापि कुले लक्षणया वृत्तेर्नपुंसकत्वम्। यत्र हि प्रातिपदिकस्यैव लक्षणा प्रसिद्धा तत्र पर्वलिङ्गत्यागः। यथा प्रकृते श्रीशब्दः। यत्र तु पदस्य लक्षणा, न तत्र पूर्वलिङ्गत्यागः, यथा "गङ्गायां घोष"इत्यादाविति "पुंयोगादाख्याया"मिति सूत्रे , प्रकृतसूत्रे च भाष्यैयटयोर्मर्यादा स्थिता। एवं च "कालिम्मन्यं कुल"मित्यत्र कालीशब्दस्य न स्त्रीलिङ्गपरित्यागः, प्रयोगानुसारेण तत्र पदलक्षणाया एवाभ्युपगमात्। "श्रिमन्यं कुल"मित्यत्र तु प्रयोगाऽनुसाराच्श्रीशब्दस्य प्रातिपदिकस्यैव लक्षणेति पूर्वलिङ्गपरित्यागान्नपुंसकलिङ्गत्वमेवाश्रीयते। ततश्च श्रीशब्दस्याऽत्र नपुंसकत्वात् "खित्यनव्ययस्ये"ति बहिरङ्गं ह्यस्वं बाधित्वा "ह्यस्वो नपुंसके प्रातिपदिकस्ये"ति ह्यस्व एव न्याय्यः। मुमपवादे "इच एकाचः" इत्यमि कृते तस्य "स्वमोर्नपुंसका"दित लुक्। तथा च "श्रिमन्यं कुल"मिति सिद्धम्। नच गाम्मन्य इत्यादावपि "सुपो धातुप्रातिपदिकयो"रिति लुक् स्यादिति वाच्यम्, "इच एकाचः" इत्यमः "सुपो धातु" इति लुगपवादत्वात्। "स्वमोर्नपुंसका"दिति लुकस्तु नायमम्विधिर्बाधकः, मध्येऽपवादन्यायादिति प्रकृतसूत्रे भाष्यकैयटयोः स्पष्टम्। तदाह-- भाष्यकारेत्यादि। "ह्यस्वो नपुंसके" इत्यनेने"ति शेषः। मुममोरभावश्चेति। मुमपवादस्य अमः "स्वमोर्नपुंसका"दिति लुकि सति तयोः प्रयोगाऽभावः फलतीत्यर्थः।

तत्त्व-बोधिनी
इच एकाचोऽम्प्रत्ययवच्च ६६४, ६।३।६७

इच एकाचः। अम्()ग्रहणमिहाऽ‌ऽवर्तते, तत एकेन अम् विधीयते, परेण प्रत्ययो विशेष्यते। तदाह-- स्वाद्यम्वदिति। एवं च "न विभक्तौ तुस्माः" इति निषेधान्मकारस्य नत्संज्ञा, अतएव परश्च भवति। "औतोऽम्()शसो"रित्यत्र शशा साहचर्यात्सुबेवाऽम् गृह्रत इत्युक्तत्वादोत आकारश्च भवतीत्याशयेनोदाहरति-- गांमन्य इति। नरंमन्य इति। "ऋतोऽङीत्यादिना गुणः।भाष्यकरोति। अयं भावः-- यथा प्रष्ठादयः शब्दाः पुंयोगात्स्त्रीयां वर्तन्ते-- प्रष्ठी गणिकेति, तथेह श्रीशब्द परित्यक्तस्वलिङ्गः क्लीबः सन् कुले वर्तते, तत्र "ह्यस्वो नपुंसके" इति ह्यस्वः, मुम् तु न, अपवादेन अमा बाधात्। "स्वमोर्नपुंसका"दित्यमो लुक्। नचैं गामंन्य इत्यादावपि "सुपो धातुप्रातिपदिकयो"रिति लुक् स्यादिति वाच्यम्, "अम्विधिसामथ्र्यादेव तद्बाधादित्याहुः। अम्()प्रत्ययस्तु "मध्येऽपवादा" इति न्यायेन "सुपो धातुप्रातिपदिकयो"रिति लुकमेव बाधते न तु "स्वमोर्नपुंसका"दिति लुकमिति भाष्यादौ स्थितम्। स्यादेतत्--नपुंसकह्यस्वे कृते मुमः प्राप्तिरेव नास्ति, कथमत्रापवादेन अमा बाधादित्युक्तिः सङ्गच्छेत, "अरुर्द्विष"दिति सूत्रे हि अन्तग्रहणस्य समीपवाचित्वेन "खित्यनव्ययस्ये"ति पुनह्र्यस्वो मुमर्थः स्वीक्रियते तथात्रापि भवेदित्यस्त्येव मुमः प्राप्तिरिति।