पूर्वम्: ६।३।६९
अनन्तरम्: ६।३।७१
 
सूत्रम्
श्येनतिलस्य पाते ञे॥ ६।३।७०
काशिका-वृत्तिः
श्येनतिलस्य पाते ञे ६।३।७१

श्येन तिल इत्येतयोः पातशब्दे उत्तरपदे ञप्रत्यये परे मुमागमो भवति। श्येनपातो ऽस्यां क्रीडायाम् श्यैनम्पाता। तैलम्पाता। ञे इति किम्? श्येनपातः।
न्यासः
श्येनतिलस्य पाते ञे। , ६।३।७०

"ञप्रत्यये परे" इति। ञः प्रत्ययो यस्मादुत्तरपदात्? तत्? तथोक्तम्()। "श्यैनम्पाता" इति। पतनं पातः, भावे घञ्(), श्येनस्य पातः श्येनपातः। "कृद्योगा च षष्ठी समस्यते" (वा।८६) इति समासः, "घञः सास्यां क्रियेति ञः" ४।२।५७
बाल-मनोरमा
श्येनतिलस्य पाते ञे १२४९, ६।३।७०

श्येनतिलस्य। मुमागम इति। "अरुर्द्विष" दित्यतस्तदनुवृत्तेरिति भावः। ञप्रत्यये इति। ञप्रत्यये परे यः पातशब्दस्तस्मिन्नित्यर्थः। उत्तरपदे इति। "अलुगुत्तरपदे" इत्यतस्तदधिकारादिति भावः। श्येनपात इति। पतनं पातः। भावे घञ्। श्यैनंपातेति। श्येनपातशब्दाद्धञन्ताञ्ञः। यद्यपि पातशब्द एव घञन्तस्तथापि कृद्ग्रहणपरिभाषया श्येनपातशब्दस्यापि ग्रहणं बोध्यम्। श्येनस्य पात इति कृद्योगषष्ठ()आ समासः। तथाच श्येनपातशब्दस्यादिवृद्धिः। तैलंपाता स्वधेति। स्वधाशब्दः स्त्रीलिङ्ग पित्र्यक्रियायां वर्तते, "नमः स्वधायै" इत्यादिदर्शनात्। "स्वधे"त्यनेन क्रीडायामिति नानुवर्तते इति सूचितम्। तदस्यामिति प्रकृते पुनरस्यामिति ग्रहणात्।

तत्त्व-बोधिनी
श्येनतिलस्य पाते ञे १०१५, ६।३।७०

दण्डापातोऽस्यां तिथाविति।