पूर्वम्: ६।३।७५
अनन्तरम्: ६।३।७७
 
सूत्रम्
नगोऽप्राणिष्वन्यतरस्याम्॥ ६।३।७६
काशिका-वृत्तिः
नगो ऽप्राणिष्वन्यतरस्याम् ६।३।७७

नञ् प्रकृत्या भवति अन्यतरस्याम्। नगा वृक्षाः, अगा वृक्षाः। नगाः पर्वताः, अगाः पर्वताः। न गच्छन्ति इति नगाः। गमेर्डप्रत्ययः। अप्राणिषु इति किम्? अगो वृषलः शीतेन।
न्यासः
नगोऽप्रणिष्वन्यतरस्याम्?। , ६।३।७६

"गमेर्डप्रत्ययः" इति। "डप्रकरणे अन्यत्रापि दृश्यते" (वा।२५६) इति वचनात्()॥