पूर्वम्: ६।३।८६
अनन्तरम्: ६।३।८८
 
सूत्रम्
विभाषोदरे॥ ६।३।८७
काशिका-वृत्तिः
विभाषा उदरे ६।३।८८

उदरशब्दे उत्तरपदे यत्प्रत्ययान्ते समानस्य विभाषा स इत्ययम् आदेशो भवति। सोदर्यः, समानोदर्यः। समानोदरे शयित ओ च उदात्तः ४।४।१०७ इति यत्।
न्यासः
विभाषोदरे। , ६।३।८७

बाल-मनोरमा
विभाषोदरे १००१, ६।३।८७

विभाषोदरे। उदरशब्दे परे समानस्य सभावो वा स्यादित्यर्थः। इत्येवेति। अनुवर्तत एवेत्यर्थः।

तत्त्व-बोधिनी
विभाषोदरे ८५१, ६।३।८७

विवक्षित इति। उत्तरपदमात्रनिमित्तः समासोऽन्तरङ्गः, समासप्रकृतिकसुबन्तात्तु यत्प्रत्ययः। अतस्तस्य परत्वं न संभवतीत्याशयेनेदमुक्तम्। सोदर्य इति। "समानोदरे शयितः"इत्यर्थे प्रत्ययात्प्राक्समानस्य सभावे कृते "सोदराद्यः"इति यः। सभावाऽभावपक्षे तु "समानोदरे शयित ओ चोदात्तः इथि यति "समानोदर्यः"।