पूर्वम्: ६।३।९२
अनन्तरम्: ६।३।९४
 
सूत्रम्
तिरसस्तिर्यलोपे॥ ६।३।९३
काशिका-वृत्तिः
तिरसस् तिर्यलोपे ६।३।९४

तिरसित्येतस्य तिरि इत्ययम् आदेशो भवति अञ्चाउ वप्रत्ययान्ते उत्तरपदे ऽलोपे, यदा अस्य लोपो न भवति। तिर्यक्, तिर्यञ्चौ, तिर्यञ्चः। अलोपे इति किम्? तिरश्चा। तिरश्चे। अचः इत्यकारलोपः।
लघु-सिद्धान्त-कौमुदी
तिरसस्तिर्यलोपे ३४२, ६।३।९३

अलुप्ताकारेऽञ्चतौ वप्रत्ययान्ते तिरसस्तिर्यादेशः। तिर्यङ्। तिर्यञ्चौ। तिरश्चः। तिर्यग्भ्याम्॥ ,
न्यासः
तिरसस्तिर्यलोपे। , ६।३।९३

बाल-मनोरमा
तिरसस्तिर्यलोपे , ६।३।९३

तिरसस्तिर्यलोपे। "तिरि" इति लुप्तप्रथमाकम्। ""अञ्चतावप्रत्यये" इत्यनुवर्तते। न विद्यते "अचः" इत्यल्लोपो यस्य स "अलोपः", तस्मिन्निति विग्रहः। तदाह--अलुप्तेत्यादिना। तिर्यङिति। तिरः-अञ्चतीति विग्रहे क्विन्नादि। तिरसस्तिर्यादेशे यण्। तिरश्च इति। शसादावचि "अचः" इत्यल्लोपसत्त्वान्नतिर्यादेशः। सस्य श्चुत्वेन श इति भावः।

तत्त्व-बोधिनी
तिरसस्तिर्यलोपे ३७५, ६।३।९३

तिरसः। न विद्यते लोपो यस्य सः "अलोप"इति बहुव्रीहिः। अञ्चतावित्यनुवत्र्तमानमन्यपदार्थः। अवयवद्वारकश्च लोपः समुदाये उपचर्यत इत्यभिप्रेत्याह---अलुप्ताकार इत्यादि। "अकारलोपे सती"ति नोक्तं, व्याख्यानात्। अप्रत्ययान्ते किम्(), "तिरोऽञ्चन"मित्यादौ मा भूत्। तिरश्च इथि। लुप्ताऽकारत्वात्तिर्यादेशाऽभावे सस्य श्रुत्वेन शः। न चाऽल्लोपस्य स्थानिवत्त्वात्। श्चुत्वं न स्यादिति वाच्यम्, पूर्वत्रासिद्धे तदभावात्पदान्तविधित्वाच्च।