पूर्वम्: ६।४।११८
अनन्तरम्: ६।४।१२०
 
सूत्रम्
घ्वसोरेद्धावभ्यासलोपश्च॥ ६।४।११९
काशिका-वृत्तिः
घ्वसोरेद्धावभ्यासलोपश् च ६।४।११९

घुसंज्ञाकानाम् अङ्गानाम् अस्तेश्च एकारादेशो भवति हौ परतः अभ्यासलोपश्च। देहि। धेहि। अस्तेः श्नसोरल्लोपः ६।४।१११। इत्यकारलोपः, एधि। शिदयम् लोपः, तेन सर्वस्याभ्यासस्य भवति।
लघु-सिद्धान्त-कौमुदी
घ्वसोरेद्धावभ्यासलोपश्च ५८०, ६।४।११९

घोरस्तेश्च एत्त्वं स्याद्धौ परे अभ्यासलोपश्च। एत्त्वस्यासिद्धत्वाद्धेर्धिः। श्नसोरित्यल्लोपः। तातङ्पक्षे एत्त्वं न, परेण तातङा बाधात्। एधि, स्तात्। स्तम्। स्त। असानि। असाव। असाम। आसीत्। आस्ताम्। आसन्। स्यात्। स्याताम्। स्युः। भूयात्। अभूत्। अभविष्यत्॥ इण् गतौ॥ १८॥ एति। इतः॥
न्यासः
ध्वसोरेद्धावभ्यासलोपश्च। , ६।४।११९

"अभ्यासलोपश्च" इति धुसंज्ञकार्थमभ्यासलोपग्रहणम्(); न त्वस्त्यर्थम्(); अस्तेरभ्यासम्भवात्()। "देहि चेहि" इति। दाञ्()धाञोरेते रूपे। अन्येषान्तु घुसंज्ञकानामुदाहरणं न सम्भवति; विकरणेन हेव्र्यवधानात्()। असम्भवाच्च यथायोगम्()। तत्र "दो" इत्येतस्य श्यना हिशब्दो व्यवधीयते, दणो धेटस्तु शापा, देङः पुनरात्मनेपदित्वाद हेरसम्भवः। "एधि" इति। सकारस्यैत्त्वे कृते तस्यासिद्धत्वात्? "हुझलभ्यो हेर्धिः ६।४।१०१ इति धिभावः। ननु च "अलोऽन्त्यस्य" १।१।५१ इत्यलामन्त्यस्य लोपेन भवितव्यम्(), तत्? कथं सर्वस्याभ्यासस्य लोपो भवति? इत्यत आह--"शिदयम्()" इत्यादि। "लोपश्च" इत्यत्र द्वौ शकारौ निर्दिष्टौ। तत्रैको लोपस्य समबन्धी, द्वितीयस्तु विभक्तेः। यश्च लोपस्य सम्बन्धी तस्येत्संज्ञा प्रतिज्ञायत इति शिदयं लोपो भवति। तेन सर्वस्याभ्यासस्थ लोपो भवति। "आ च हौ" ६।४।११७ इत्यतो होग्रहणं मण्डूकप्लुतिन्यायेन शक्यतेऽनुवत्र्तयुतुम्()। तत्रन्यतरस्यांग्रहणेन सम्बद्धमिति तदनुवृत्तौ "अन्यतरस्याम्()" इत्येतस्याप्यनुवृत्तिरित्याशङ्का स्यात्(), अतस्तन्निवृत्त्यर्थं "हौ" इत्युक्तम्()। चकारस्य सन्नियोगर्थत्वाल्लोपो भवत्येत्त्वञ्च॥
तत्त्व-बोधिनी
घ्वसोरेद्धावभ्यासलोपश्च २६१, ६।४।११९

घ्वसोरेद्धा। एत्वमलोन्त्यस्य, लोपस्तु शित्त्वात्सर्वस्येति भाष्यादौ स्पष्टम्। देहि। धेहि। असिद्धत्वादाडिति। नन्वेवमाटोऽसिद्धत्वात् "श्नसो"रित्यल्लोपो न भवेदिति तपरकरणं तत्र व्यर्थमिति चेत्, अत्राहुः-- आभाच्छास्त्रस्याऽनित्यताज्ञापनाय तपरकरणम्। तेन "देभतु"रित्यादि सिद्धमिति। स्यादेतत्-- अत्र केचित्-- अद्ग्रहणस्य निष्फलत्वे तपरकरणस्य ज्ञापनार्थत्वं न सिध्येत्। न च "अत उ"दिति सूत्रस्थतपरकररणमेव ज्ञापनार्थमस्त्विति वाच्यम्, अस्येत्युक्तौ गौरवादद्र्धमात्रालाघवाय तत्र तपरत्वमिति सुवचत्वात्। तस्मादुक्तज्ञापनार्थमद्ग्रहणमावश्यकमित्याहुः।