पूर्वम्: ६।४।१२६
अनन्तरम्: ६।४।१२८
 
सूत्रम्
अर्वणस्त्रसावनञः॥ ६।४।१२७
काशिका-वृत्तिः
अर्वणस् त्रसावनञः ६।४।१२७

अर्वनित्येतस्य अङ्गस्य तृ इत्ययम् आदेशो भवति, सुश्चेत् ततः परो न भवति, स च नञ उत्तरो न भवति। अर्वन्तौ। अर्वन्तः। अर्वन्तम्, अर्वतौ, अर्वतः। अर्वता, अर्वद्भ्याम्, अर्वद्भिः। अर्वती। आर्वतम्। असौ इति किम्? अर्वा। अनञः इति किम्? अनर्वाणौ। अनर्वाणः। अनर्वाणं वृषभं मन्द्रजिह्वम्।
लघु-सिद्धान्त-कौमुदी
अर्वणस्त्रसावनञः २९४, ६।४।१२७

नञा रहितस्यार्वन्नित्यस्याङ्गस्य तृ इत्यन्तादेशो न तु सौ। अर्वन्तौ। अर्वन्तः। अर्वद्भ्यामित्यादि॥
न्यासः
अर्वणस्त्रसावनञः। , ६।४।१२७

"त्()" इत्ययमादेशो भवति" इति। "नानुबन्धकृतमनेकाल्त्वम्()" (व्या।प।१४) इत्यन्तस्य भवति; एकाल्त्वात्(), कारस्यानुबन्धत्वात्()। उकारस्यानुबन्धत्वात्? प्रथमैकवचनं सुशब्दो गृह्रते, तेन सप्तमीबहुवचने भवत्येव--अर्वत्स्वित। स च नञ उत्तरो न भवतीति चेदिति यत्? प्रकृतं तदिहापि सम्बध्यते। "अर्वन्तौ" इति। ऋकारस्योगित्कार्यार्थत्वात्? "उगिदचाम्()" ७।१।७० इति नुम्()। "अर्वति" इति। "उगितश्च" ४।१।६ इति ङीप्()। "आर्वतम्()" इति। अपत्यार्थविवक्षायामण्()। ननु च नञिवयुक्तन्यायेन (व्या।प।६५) सादृश्यात्? सोरन्यत्र विभक्तादेव भवितव्यम्()? नैतत्(); असाविति प्रसज्यप्रतिषेधोऽयम्()। अत एव वृत्तिकृतोक्तम्()--"सुश्चेत्? ततः परो न भवति" इति। अन्यथा सोरन्यो यः सुप्? स चेत्? ततः परो भवतीति ब्राऊयात्()। अथापि पर्युदासः? एवमप्यदोषः; अनित्यत्वान्नञिवयुक्तपरिभाषायाः। अनित्यत्वन्तु तस्याः "ओषधेश्च विभक्तावप्रथमायाम्()" ६।३।१३१ इत्यत्र विभक्तिग्रहणाद्विज्ञायते। यदि हि सा नित्या स्यात्(), प्रथमापर्युदासेन विभरक्तावेव भविष्यतीति विक्तक्तिग्रहणं न कुर्यात्()। कुर्वन्नपि तज्ज्ञापयति--अनित्येयं परिभाषेति॥
बाल-मनोरमा
अर्वणस्त्रसावनञः , ६।४।१२७

तस्य सौ राजवद्रूपं मत्वाह--अर्वा। हे अर्वन्निति। अर्वणस्त्रासावनञः। तृ-असौ इति छेदः। न विद्यते नञ् यस्येति बहुव्रीहिः। अङ्गस्येत्यधिकृतम् अर्वणा विशेष्यते। तदाह--नञा रहितस्येत्यादिना। ऋकार इत्। "अलोऽन्त्यस्ये"ति नस्य तः। उगित्त्वान्नुमिति। "उगिदचा"मित्यनेनेति भावः। अर्वन्ताविति। नुमो नस्य "नश्चापदान्तस्ये"ति अनुस्वारः, परसवर्ण इति भावः। शसादावचि असर्वनामस्थानत्वान्नुम् नेति मत्वाह-अर्वत इति। अर्वद्भ्यामिति। "स्वादिषु" इति पदत्वाज्जश्त्वमिति भावः। इत्यादीति। अर्वद्भिः। अर्वते। अर्वद्भ्यः। अर्वतः अर्वतोः अर्वताम्। अर्वति। अर्वत्सु। अनञः किमिति। "अनञः" इत्यस्य किं प्रयोजनमित्यर्थः। अनर्वा यज्ववदिति। अनर्वन्शब्दो यज्ववदित्यर्थः। शसादावचि "न संयोगाद्वमन्ता"दित्यल्लोपो नेति बावः। पथिन्, मथिन्, ऋभुक्षिन्, एते नकारान्ताः।

तत्त्व-बोधिनी
अर्वणस्त्रसावनञः ३२५, ६।४।१२७

अर्वणस्तृ।"अङ्गस्ये"ति वर्तते, तच्चाऽर्वणा विशेष्यते, "अनञ"इत्यनेनापि, तदाह--नञा रहितस्येत्यादि। "असा"विति परयुदासे विभक्तौ परत एव स्यात्, ततश्चाऽर्वतीत्यादौ न स्यादित्याशयेनाह--न तु साविति। नचैवमर्वप्रिय इत्यादावतिप्रसङ्गः, अङ्गेन स्वनिमित्तस्य प्रत्ययस्याऽ‌ऽक्षेपाल्लुका लुप्तत्वेनाऽत्र प्रत्ययलक्षणाऽभावात्। एतेन "वाहैरलुप्यत सहस्त्रगर्वगर्वः"इति श्रीहर्षप्रयोगो व्याख्यातः। नन्वेवं, "स्थानिवदादेशः"इति सूत्रे "धात्वङ्गकृत्तद्धिताब्ययसुप्तिङ्पदादेशाः स्थानिवत्स्यु"रिति प्राचो ग्रन्थमनूद्य---"त()त्क परिगणनुदाहरणमात्रं वे ति विकल्प्य,"नान्त्यः, अब्ययस्याङ्गपदाभ्यां पृथग्ग्रहणवैयथ्र्या"दिति मनोरमायां यदुक्तं तत्कथं सङ्गच्छेत(), अव्ययस्योक्तिरीत्याऽनङ्गत्वात्। न च "न लुमते"त्यनेनाऽङ्गकार्यनिषेधेऽप्यङ्गसंज्ञाया अनिषेधान्नोक्तदोष इति वाच्यम्, प्रत्यये परतः पूर्वस्य यत्कार्यमाङ्गमनाङ्गं वा तत्सर्वं "न लुमते"त्यनेन निषिध्यते इथि "यङोऽचु चे"ति सूत्रस्थमनोरमाग्रन्थपर्यालोचनया लुमताशब्देन लुप्तेऽङ्गसंज्ञाया अप्यस्वीकार्यत्वात्। तस्या अपि प्रत्यये परतः पूर्वस्य कार्यत्वात्। यदि तु लुका लुप्तेऽप्यङ्गत्वं स्वीक्रियते, तदाऽयं ग्रन्थो "यचि भं""वृषण्वस्व()आयो"रित्यत्र "वृष वर्षुकं"वसु धनं यस्य वृषण्वसु, वृषा अ()आओ यस्य वृषण()आ"इत्युदाह्मत्म भत्वादिह नलोपो न भवति, अल्लोपस्तु अनङ्गत्वान्नेट"ति मूले वैदिकप्रक्रियायां वक्ष्यमाण ग्रन्थेन सह विरुध्यते। नच "अल्लोपोऽनः"इत्यत्रा"ऽङ्गावयवोऽसर्वमानस्थानयजादिस्वादिपरो योऽ"निति व्याख्यानादल्लोपस्य तत्र प्राप्त्यभावादनाङ्गत्वादिति समाधानं व्यर्थमिति भ्रमितव्यम्, भसंज्ञयैव "यजादिस्वादिपरोयोऽ"निति व्याख्यानावद्वस्व()आयोः परतो योऽनिति व्याख्यानस्यापि लभात्। तस्मात्पदात्पृथगित्येव वक्तव्ये अङ्गपदाभ्यामित्यङ्गग्रहणं रभसकृतमेवेति चेदत्राहुः--"न लुमते"ति सूत्रे लुमतालुप्ते तन्निमित्ताङ्गसंज्ञकस्य कार्यं नस्यादिति यदा व्याख्यायते, तदा "अर्वणस्तृ"इत्यद्यङ्गकार्याऽवृत्तावप्यङ्गसंज्ञाया निर्बाधत्वादङ्गग्रहणं तत्रत्यं सम्यगेव। यदात्वाङ्गमनाङ्गं वेत्यादिमनोरमाग्रन्थस्यानङ्गत्वादिति मूलग्रन्थस्य च स्वारस्यपर्यालोचनया लाघवादव्ययस्याङ्गत्वे फलाभावाच्च प्रत्यये परतः पूर्वस्य कार्यं निषिध्यते, तदा त्वविशेषेणाऽङ्गसंज्ञाया अपि निषेधादङ्गग्रहं तत्र रभसकृतमेव। न च "न लुमते"त्यनेनाङ्गसंज्ञानिषेधे "युवोरनाका"विति सूत्रस्थभाष्यकैयटाभ्यां विरोधः स्यादिति वाच्यं, तयोस्तत्र प्रौढवादेन प्रवृत्तत्वात्। तथाच "न लुमत तस्मि"न्निति सिद्धान्तः, प्रत्यये परतः पूर्वस्य कार्यं निषिध्यते"इति मनोरमाग्रन्थश्च स्वरसतः सङ्गच्छत इति। ननु ऋधातोर्विचि गुणे च "अ"रिति रूपं, तस्मान्मतुपि अर्वन्तावित्यादि सेत्स्यति, "छन्दसीवनिपा"विति वनपि वेदे "अर्वे"ति सेत्स्यति। ऋधोरोरेव "स्त्रामदिपद्यत्र्ती"त्यादिना वनिपि तु लोकेऽप्यर्वेति सेत्स्यति। रूढिशब्दश्चायं, "वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः"इत्यमरकोशात्। ततश्चार्थोऽपि न भिद्यत इति किमनेन सूत्रेणेति चेदत्राहुः--नान्ततान्तयोः सर्वत्र प्रयोगे प्राप्ते सौ परे नञ्पूर्वपदे च नान्तस्य प्रयोगो भवत्यन्त्र तचु नान्तस्य प्रयोगो न भवतीति व्यवस्थार्थमिदं, "तृज्वत्क्रोष्टु"रिति त्रिसूत्रीवदिति। यत्तु केश्चिदुक्तम्---"अर्वन्मघवन्शब्दयोरपि भाषायामसाधुत्वमेव। "अर्वणस्तृ मघोनश्च न शिप्यं धान्दसं हि तत्। मतुब्वन्योर्विधानाच्च धन्दस्युभयदर्शमात्िति वार्तिकादिति। तदापाततः, वार्तिकस्य वनिबन्तमध्योदात्तपरत्वात्। छन्दस्येव वनिब्व#इधानात्। तथाच श्रीहर्षः---"वाहैरलुप्यत सहस्त्रद्दगर्वगर्वः"इति प्रायुङ्लः। अर्वन्तौ अर्वन्त इति। व्यपदेशिवद्भावेनाऽर्वन्नन्तत्वाव्रादेशः। न च व्यवदेशिवद्भावोऽप्रातिपदिकेनेति वाच्यं, तस्य प्रत्ययविधिविषयत्वात्।