पूर्वम्: ६।४।१४०
अनन्तरम्: ६।४।१४२
 
सूत्रम्
मन्त्रेष्वाङ्यादेरात्मनः॥ ६।४।१४१
काशिका-वृत्तिः
मन्त्रेष्वाङ्यादेरात्मनः ६।४।१४१

मन्त्रेषु आगि परतः आत्मनः आदेर्लोपो भवति। त्मना देवेभ्यः। त्मना सोमेषु। मन्त्रेषु इति किम्? आत्मना कृतम्। आङि इति किम्? यदात्मनस्तन्नो वरिष्ठा। आगो ऽन्यत्र अपि दृश्यते। त्मन्या समञ्जन्।
न्यासः
मन्त्रेष्वाङ्यादेरात्मनः। , ६।४।१४१

"आङ" इति तृतीयैकवचनस्यैषा संज्ञा पूर्वाचार्यैर्विहिता। "आङोऽन्यत्रापि दृश्यते" इति। "मन्त्रेषु" इति बहुवचननिर्देशादेतल्लभ्यते। बहुवचननिर्देशेन ह्रयमर्थः सूचितः--बहुविषयोऽयं निर्देश इति। एवञ्च बहुविषयो भवति यद्याङोऽन्यत्रापि क्वचिद्भवति, नान्यथा। "त्मान्यासमञ्जत" इति। सप्तम्येकवचने। अत्रादिलोपः। आदिग्रहणमुत्तरार्थम्()। इह तु पूर्वसूत्रात्? "आतः" ६।४।१४० इत्यनुवृत्तेरन्तरेणाप्यादिग्रहणमादेरेवलोपो भवतीति शक्यते विज्ञातुम्()॥