ज्यदुत्तरस्य ईयसः आकार आदेशो भवति। ज्यायान्। लोपस्य यिटा व्यवहितत्वातातित्युच्यते। लोपे हि सति अकृद्यकार इति दीर्घत्वेन ज्यायानिति सिध्यति।
"ज्यायान्()" इति। "प्रशस्यस्य श्रः"
५।३।६० "ज्य च"
५।३।६१ इति ज्यादेशः।
"लोपस्य यिट्? च" इयादि।
यद्यत्र लोपो यिटा न व्यवधीयते तदा तेनैव ज्यायानित्येतत्? सिद्ध्यतीति कृत्वाऽऽदिति नोच्येतेत्यभिप्रायः।
कथं पुनरादित्यनुच्यमाने लोपेन सिद्धयति? इत्यत आह--"लोपे हि सति" इत्यादि। अथ दीर्घोच्चारणं किमर्थम्(),
यावतान्तरतम्यादेव दीर्घस्य दीर्घ एव भविष्यति? नैतदस्ति;
न हि "भाव्यमानोऽण्? सवर्णान्? न गृह्णाति" (व्या।प।३५) इति॥