पूर्वम्: ५।३।५९
अनन्तरम्: ५।३।६१
 
सूत्रम्
प्रशस्यस्य श्रः॥ ५।३।६०
काशिका-वृत्तिः
प्रशस्यस्य श्रः ५।३।६०

प्रशस्य शब्दस्य श्र इत्ययम् आदेशे भवति अजाद्योः प्रत्यययोः परतः। अजादी इति प्रकृतस्य सप्तमी विभक्तिविपरिणम्यते। ननु च प्रशस्य शब्दस्य अगुणवचनत्वादजादी न सम्भवतः? एवं तर्हि आदेशविधानसामर्थ्यात् तद्विषयो नियमो न प्रवर्तते, अजादी गुणवचनादेव इति। एवम् उत्तरेष्वपि योगेषु विज्ञेयम्। सर्वे इमे प्रशस्याः, अयम् एषाम् अतिशयेन प्रशस्यः श्रेष्ठः। उभाविमौ प्रशस्यौ, अयम् अनयोरतिशयेन प्रशस्यः श्रेयान्। अयम् अस्मात् श्रेयान्। प्रकृत्यौ काचिति प्रकृतिभावत् श्रशब्दस्य टिलोपयस्येतिलोपौ न भवतः।
लघु-सिद्धान्त-कौमुदी
प्रशस्यस्य श्रः १२२६, ५।३।६०

अस्य श्रादेशः स्यादजाद्योः परतः॥
न्यासः
प्रशस्यस्य श्रः। , ५।३।६०

ननु चाजीदी इति प्रथमान्तम्(), तत्कथमजाद्योः परत आदेशो लभ्यते? इत्याह--"अजादी" इतचि। "तद्विषयः" इति। स प्रशस्यशब्दो विषयो यस्य स तद्विषयः। "अजादी गुणवचनादेव" ५।३।५८ इतत्यनेन यो नियमः स तद्विषये न प्रवत्र्तत इति दर्शयति। "एवमुत्तरेष्वपि" इति। "वृद्धस्य च" ५।३।६२ इत्येवमादिषु। अयमनयोः अयमनयोः श्रेयानिति द्विवचनोपपद ईयसुन्? अयमस्मात्? श्रेयानिति विभज्योपपदे। पूर्वत्र निर्धारणे षष्ठी २।३।४१, उत्तरत्र "पञ्चमी विभक्ते" २।३।४२ इति पञ्चमी॥
बाल-मनोरमा
प्रशस्यस्य श्रः , ५।३।६०

प्रशस्यस्य श्रः। अजाद्योरिति। इष्ठन्नीयसुनोरित्यर्थः। "अजादी" इत्यनुवृत्तं सप्तम्या विपरिणम्यत इति भावः। प्रशस्यशब्दस्य क्रियाशब्दतया गुमवचनत्वाऽभावेऽपि अत एव ज्ञापकादिष्ठन्नीयसुनौ। श्र-इष्ठ, श्र-ईयस् इति स्थिते इष्ठेमेयःसु विहितटिलोपे प्राप्ते--।

तत्त्व-बोधिनी
प्रशस्यस्य श्रः १५०५, ५।३।६०

प्रशस्यस्य श्रः। "अजादी"इत्यनुवृत्तं सप्तम्या विपरिणम्यत इत्याह---अजाद्योरिति। अजाद्योः किम्()। प्रशस्यतरः। प्रशस्यतमः।