पूर्वम्: ६।४।१६५
अनन्तरम्: ६।४।१६७
 
सूत्रम्
संयोगादिश्च॥ ६।४।१६६
काशिका-वृत्तिः
संयोगाऽदिश् च ६।४।१६६

संयोगादिश्च इनणि प्रकृत्या भवति। शङ्खिनो ऽपत्यं शाङ्खिनः। माद्रिणः। वाज्रिणः।
न्यासः
संयोगादिश्च। , ६।४।१६६

अयमप्यपत्यार्थ आरम्भः। "शाङ्खिनः" इति। शङ्खमद्रवज्रशब्देभ्यो मत्वर्थे इतिः, तदन्तात्? पूर्ववदण्()॥
बाल-मनोरमा
संयोगादिश्च ११४०, ६।४।१६६

संयोगादिश्च। इन् प्रकृत्येति। "इनण्यनपत्ये" इत्यतः "प्रकृत्यैका"जित्यतश्च तदनुवृत्तेरिति भावः। चाक्रिण इति। "इण्यपत्ये" इत्यत्रानपत्ये इति पर्युदासादप्राप्तिः।