पूर्वम्: ६।४।१७२
अनन्तरम्: ६।४।१७४
 
सूत्रम्
औक्षमनपत्ये॥ ६।४।१७३
काशिका-वृत्तिः
औक्षम् अनपत्ये ६।४।१७३

औक्षम् इति अनपत्ये ऽणि टिलोपो निपात्यते औक्षं पदम्। अनप्त्ये इति किम्? उक्ष्णो ऽपत्यम् औक्ष्णः। षपूर्वहन्धृतराज्ञाम् अणि ६।४।१६५ इत्यलोपः।
न्यासः
औक्षमनपत्ये। , ६।४।१७३

"औक्षं पदम्()" इति। "तस्येदम्()" ४।३।१२० इत्यण्()॥
बाल-मनोरमा
औक्षमनपत्ये ११४३, ६।४।१७३

औक्षम्। शेषपूरणेन सूत्रं व्याचष्टे-अणि टिलोपो निपात्य इति। "अन्" इति प्रकृतिभावापवाद इति भावः। औक्षमिति। टिलोपे रूपम्। औक्ष्ण इति। अपत्येऽणि टिलोपाऽभावेऽल्लोप इति भावः।