पूर्वम्: ६।४।१७३
अनन्तरम्: ६।४।१७५
 
सूत्रम्
दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेय- वाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि॥ ६।४।१७४
काशिका-वृत्तिः
दाण्डिनायनहास्तिनायनाऽथर्वणिकजैह्माशिनेयवासिनायनिभ्रौणहत्यधैवत्यसारवाइक्ष्वाकमैत्रेयहिरण्मयानि ६।४।१७४

दाण्दिनायन हास्तिनायन आथर्वणिक जैह्माशिनेय वासिनायनि भ्रौणहत्य धैवत्य सारव ऐक्ष्वाक मैत्रेय हिरण्मय इत्येतानि निपात्यन्ते। दण्डिन् हस्तिनित्येतौ नडादिषु पठयेते, तयोरायने परतः प्रकृतिभावो निपात्यते। केषांचित् तु हस्तिनिति नडादिषु न पठ्यते, तेषाम् अत एव निपातनात् फगपि भवति। दण्डिनो ऽपत्यं दाण्दिनायनः। हस्तिनो ऽपत्यं हास्तिनायनः। अथर्वनिति वसन्तादिषु पठ्यते। अथर्वणा प्रोक्तो ग्रन्थो ऽपि उपचारातथर्वनिति उच्यते, तमधीते यः स आथर्वणिकः। इके प्रकृतिभावो निपात्यते। जिह्माशिनिति शुभ्रादिषु पठ्यते, तस्य ण्ये परतः प्रकृतिभावो निपात्यते। जिह्माशिनो ऽपत्यं जैह्माशिनेयः। वासिनो ऽपत्यम्। ज्दीचां वृद्धादगोत्रात् ४।१।१५७ इति फिञ्। तत्र प्रकृतिभावो निपात्यते। वासिनायनिः। भ्रूणहन्, धीवनित्येतयोः ष्यञि परतः तकारादेशो निपात्यते। भ्रूणघ्नः भावः भ्रौणहत्यम्। धीव्नः भावः धैवत्यम्। हनस्तो ऽचिण्णलोः ७।३।३२ इति यत् तत्वं तद् धातुप्रत्यय एव इति भ्रौणघ्नः, वार्त्रघ्नः इत्यत्र न भवति, अतः भ्रौणहत्ये तत्वं निपात्यते। सारव इति सरयू इत्येतस्य अणि परतो यूशब्दस्य व इत्यादेशो निपात्यते। सरय्वां भवं सारवम् उदकम्। ऐक्ष्वाक इति स्वरसर्वनाम्ना एकश्रुत्या पठ्यते। ततो ऽयम् आद्युदात्तो ऽन्तोदात्तश्च निपात्यते। इक्ष्वाकोः उपत्यम्, जनपदशब्दात् क्षत्रियादञ् ४।१।१६५ इति अञ्, तत्र उकारलोपो निपात्यते। ऐक्ष्वाकः। इक्ष्वाकुषु जनपदेषु भवः, कोपधादण् ४।२।१३१ इत्यण्। ऐक्ष्वाकः। मैत्रेय इति। मित्रयुशब्दो गृष्ट्यादिषु पठ्यते, ततो ढञि कृते यादेरियादेशापवादो युशब्दलोपो निपात्यते। मित्रयोरपत्यम् मैत्रेयः। अथ किमर्थं मित्रयुशब्दो बिदादिष्वेव न पठ्यते, तत्राञि कृते यादेः इति इयादेशेनैव सिद्धम्, एवं च युलोपार्थं निपातनं कर्तव्यं न भवति, यस्कादिषु च बहुषु लुगर्थः पाठो न कर्तव्यो भवति, मित्रयवः इत्यञः यञञोश्च २।४।६४ इत्येव हि लुकः सिद्धत्वात्? न एतदस्ति। मित्रयूणां सङ्घः इत्यत्र गोत्रचरणाद् वुञं बाधित्वा मैत्रेयकः सङ्घः इत्यत्र सङ्घाङ्कलक्षणेष्वञ्। यञिञाम् अण् ४।३।१२७ इति अण् प्राप्नोति। हिरण्मयम् इति हिरण्यस्य मयटि यादिलोपो निपात्यते, हिरण्यस्य विकारः हिरण्मयः।
न्यासः
दाण्डिनायनहास्तिनायनाथर्वणिकजैहृआशिनेयवासिनायनिभ्रौण्हत्येधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि। , ६।४।१७४

"उपचाराद्? ग्रन्थोऽप्यथर्वन्नित्युच्यते" इति। उपचारस्य तु तत्प्रोक्तत्वमेव निबन्धनम्()। "आथर्वणिकः" इति। "वसन्तादिभ्यष्ठक्()" ४।२।६५। "भ्रौणहत्यम्()" इति। भ्रणं हतवानिति "ब्राहृभ्रूणवृत्रेषु क्विप्()" ३।२।८७, तदन्तात्? ष्यञ्()। "हरस्तोऽचिण्णलोः" ७।३।३२ इत्यनेनैव तकारः सिद्धः, त()त्क निपात्यते? इत्याह--"इनस्तोऽचिण्णलोः" इत्यादि। "धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यसम्प्रत्यय एव" (जै।वृ।३१)। "धातोः" ६।१।१५६ इत्येवं यो विहितः प्रत्ययः, तत्र कार्यं विज्ञायत इत्यर्थः। न च ष्यञ्प्रत्ययो धातुप्रत्ययः, किं तर्हि? प्रातिपदिकप्रत्ययः तेन तत्र "हनस्तोऽचिण्णलोः" ७।३।३२ इति तकारो न प्राप्नोति, अतो निपात्यते। कथं पुनर्विज्ञापते--धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यं भवतीति? नैतदस्ति; "न क्वादेः" ७।३।५९ इत्यत्र हि नेति योगदिभागादपि शक्यते कुत्वनिवृत्तिः कर्त्तुम्()। "भ्रौणध्नः वत्र्रध्नः" इति। अपत्यार्थेऽण्()। इक्ष्वाकुशब्दाद्यदा "जनपदशब्दात्()" (४।१।१३८) इत्यादिनाञ्? भवति, तदैक्ष्वाकशब्दो ञित्स्वरेणाद्युदात्तः। यदा तु "कोपधात्()" ४।२।१३१ इति शैषिकोऽण्(), तदान्तोदात्तः। ननु चैवंविधसूत्र एकस्योपादानेऽपरस्य ग्रहणं न सिद्ध्यति, तस्मादुभयोरपि स्वरभिन्नयोरुपादानं कत्र्तव्यम्()--"ए()आकः, ऐक्ष्वकः" इति। एतच्चोद्यमपाकर्त्तुमाह--"स्वरसर्वनाम्ना" इत्यादि। उदात्तादीनां स्वराणा मविभागेनोच्चारणम्(), एकश्रुतिः। सा च स्वराणां सर्वनामेव सर्वनाम यथैव हि "तस्यापत्यम्()" ४।१।९२ इत्यादौ निर्देश उपगुप्रभृतीन्विशेषान्विभागेन प्रतिपदयति, ततैकश्रुतिरप्युदात्तादीन्स्वरविशेषान्()। तथात्रायमैक्ष्वाकशब्दः पठ()ते--नाप्याद्युदात्तो नाप्यन्तोदात्तः, तस्य त्वेवं पठितस्य प्रत्ययविशेषात्स्वरविशेषो भवति--यदाञ्? तदान्तादोत्तः। "इत्यादेशापवादः" इति। केकयादि ७।३।२ सूत्रेणेयादेशः प्राप्नोति, तदपवादो लोपो निपात्यते। "अतो गुणे" ६।१।९४ पररूपत्वम्()। "अथ किमर्थम्()" इति। येनाभिप्रायेण पृष्टवांस्तं स्वयमेवाविष्कर्त्तुमाह--"ततोऽञि कृते] इत्यादि। "सिद्धम्()" इति। रूपस्वरूपयोरभेदात्()। "यलोपार्थश्च" इत्यादिना बिदादिषु पाठे यो गुणस्तं दर्शयति। "यस्कादिषु च" इत्यादि। तत्र हि तस्य बहुषु गोत्रप्रत्ययस्य लुग्यथा स्यादित्येवमर्थः पाठः। स च लुग्बिदादिषु पाठे सति "यञञोश्च" २।४।६४ इत्यनेनैव सिद्ध्यतीति नार्थो यस्कादिषु पाठेन। "मैत्रेयः सङ्घः" इत्यादि। एतेन बिदादिषु पाठे यो दोषस्तं दर्शयति। बिदादिषु पाठे सति सर्वमेतदुपपद्यते यदुक्तवानासि; किन्तु मैत्रेयशब्दादञन्तात्? "सङ्घाङ्कलक्षण" ४।३।१२७ इत्यादिनाण्प्रत्ययः स्यात्(), ततो मैत्रेय इत्यनिष्टं रूपं स्यात्(), न तु मैत्रेयक इत्यभीष्टम्()। ढञन्तात्? तु "गोत्रचरणाद्वुञ्()" ४।३।१२६ भवतीति मैत्रेयक इत्यभीष्टं सिद्ध्यति। "हिरण्मयः" इति। "मयङ्वैतयोर्भाषायाम्()" ४।३।१४१ इति मयट्()॥
बाल-मनोरमा
दाण्डिनायनहास्तिनायनाथर्वणिकजैहृआशिनेयवाशिनायनिभ्रौणहत्यधैबत्यसारवैक्ष्वाकमैत्रेयहिरण्यमयानि ११२९, ६।४।१७४

दाण्डिनायन। एतानि निपात्यन्ते इति। दण्डिनो हस्तिनश्चापत्यं दाण्डिनायनः, हास्तिनायनः। नडादित्वात्फक्। निपातनाट्टिलोपो न। अथर्वणा प्रोक्तो ग्रन्थ उपचारादथर्वा। तमधीते आथर्वणिकः। वसन्तादित्वाट्ठक्। निपातनान्न टिलोपः। जिहृआसिनोऽपत्यं जैहृआशिनेयः। शुभ्रादित्वाड्ढक्। निपातनान्न टिलोपः। वाशिनोऽपत्यं वाशिनायनिः। "उदीचां वृद्धा"दिति फिञ्। निपातनान्न टिलोपः। भ्रूणहन्, धीवन्-एतयोर्भावे ष्यञ्। नकारस्य तकारश्च निपात्यते। नच "हनस्तोऽचिण्णलो"रित्यनेनैव तकारः सिद्व इति शङ्क्यं, "धातोः कार्यमुच्यमानं तत्प्रत्यये भवती"ति परिभाषया "हनस्तः" इति तत्वस्य दातुविहितप्रत्यये पर एव प्रवृत्तेः। इदमेव तकारनिपातनमस्यां परिभाषायां ज्ञापकमिति "मृजेर्वृद्धि"रित्यत्र भाष्ये स्पष्टम्। तेन वात्र्रघ्नमित्यत्र तत्वं न। सरय्वां भवं सारवम्--उदकम्। अणि यू इत्यस्य व इत्यादेशो निपात्यते। इक्ष्वाकोरपत्यमैक्ष्वाकः। जनपदशब्दात्क्षत्रियादञ्। उकारलोपो निपात्यते। बहुत्वे तु तद्राजत्वाल्लुक्। इक्ष्वाकवः। इक्ष्वाकुषु जनपदेषु भवोऽप्यैक्ष्वाकः। कोपधादण्। उकारलोपश्च। सूत्रे ऐक्ष्वाकेत्यत्र अञणन्तयोर्ग्रहणम्। बहुत्वे तद्राजत्वादञो लुक्। अणस्तु नेति विशेषः। हिरण्यस्य विकारो हिरण्मयः। मयटि णकाराद्यकाराकारयोर्लोपः। इति युलोप इति। मित्रयु-एय इति स्थिते यु इत्यस्य लोपो निपातनादिति भावः। मैत्रेयीति "टिड्ढाण"ञिति ङीप्।

तत्त्व-बोधिनी
दाण्डिनायनहास्तिनायनाथर्वणिकजैहृआशिनेयवाशिनायनिभ्रौणहत्यधैबत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि ९४०, ६।४।१७४

दाण्डिनायन। निपात्यन्त इति। दण्डिन्, हस्तिन्--आभ्यां नडादित्वात्फक्, निपातनाट्टिलोपाऽभावः। वसन्तादिषु "अथर्वन्िति पठ()ते। "अथर्वणा प्रोक्तो ग्रन्थ उपचारादथर्वा, तमधीते "आथर्वणिकः"। शुभ्रादिषु "जिहृआशिन्िति पट()ते, तस्यापत्यं जैहृआशिनेयः। वाशिनोऽपत्यं वाशिनायनिः। "उदीचां वृद्धा"दिति फिञ्। भ्रूणहन्, धीवन्,--अनयोः ष्यञि तकारोऽन्तादेशो निपात्यते। भ्रूणघ्नो भावो भ्रौणहत्यम्। धैवत्यम्। "हनस्तोऽचिण्णलोः"इत्यनेनैव हन्तेस्तत्त्वे सिद्धे तकारनिपातनं ज्ञापयति "धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञान"मिति। तेन वात्र्रघ्नमित्यत्र तत्वं न। नन्वेवं "प्रसृङ्भ्या"मित्यादौ "अनुदात्तस्य चे"त्यम् दुर्वारः स्यात्, अम्विधौ धातोः स्वरूपग्रहणाऽभावात्। अत्राहुः---"मृजेर्वृद्धि"रिति सूत्रस्थभाष्यपर्यालोचनया "धातोः कार्यमुच्यमानं तत्प्रत्यये भवती"ति ज्ञापनार्थं तकारनिपातनमिति व्याख्येयम्। तेन न कोऽपि दोष इति। "सरयू"इत्यस्याऽणि परे य्वादेर्वो निपात्यते। सरय्वां भवं "सारव"मुदकम्। इक्ष्वाकोरपत्यं "ऐक्ष्वाकः"। "जनपदशब्दात्क्षन्त्रियादञ्। उवोपो निपातनात्। इक्ष्वाकुषु जनपदेषु भवः। "कोपधादण्"। ऐक्ष्वाकः। अत्राप्युलोपो निपातनादेव। अञणन्तयोद्र्वयोरप्येकश्रुत्या पाठात्। बहुत्वे तु "अञस्तद्राजत्वाल्लुक्, "अणस्तु ने"ति विशेषः। तथा च रघुः--- "इक्ष्वाकूणां दुरोपेऽर्थे"इति। मुरारिस्त्वाह "ऐक्ष्वाकेषु च मैथिलेषु च फलन्त्वस्माकमद्याशिषः"इति। हिरण्यस्य विकारो हिरण्मयः। मयटि यादेर्लोपोऽत्र निपात्यते।