पूर्वम्: ६।४।६२
अनन्तरम्: ६।४।६४
 
सूत्रम्
दीङो युडचि क्ङिति॥ ६।४।६३
काशिका-वृत्तिः
दीङो युडचि क्ङिति ६।४।६३

दीङो युडागमो भवति अजादौ क्ङिति प्रत्यये परतः। उपदिदीये, उपदिदीयाते, उपदिदीयिरे। दीङः इति पञ्चमीनिर्देशादजादेर् युडागमो भवति। विधानसामर्थ्याच् च एरनेकाचो ऽसंयोगपूर्वस्य ६।४।८२ इति यणादेशे कर्तव्ये तस्य सिद्धत्वं न भवति। अचि इति किम्? उपदेदीयते। क्ङिति इति किम्? उपदानम्।
लघु-सिद्धान्त-कौमुदी
दीङो युडचि क्ङिति ६४०, ६।४।६३

दीङः परस्याजादेः क्ङित आर्धधातुकस्य युट्। (वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ)। दिदीये॥
न्यासः
दीङो युडचि क्ङिति। , ६।४।६३

"उपदिदीये" इति। "दीङ क्षये" (धा।पा।११३४), "असंयोगाल्लिट्? कित्()" १।२।५ इति कित्त्वम्(), लिटस्तझयोरेशिरेचौ। "दीङः" इति षष्टीयं वा स्यात्(), पञ्चमी वेति द्वौ पक्षौ। तत्र यद्याद्यः पक्ष आश्रीयेत, तदा "आद्यन्तौ टिकितौ" १।१।४५ इत्यादौ युटि कृते धातोरनिष्टं रूपमापद्यते; अत इदं षष्ठीपक्षे दूषणमालक्ष्य पञ्चमीपक्षं पुरस्कृत्याह--"दीङ इति पञ्चमीनिर्देशात्()" इत्यादि। पञ्चमीनिर्देशे हि सति "उभयनिर्देश पञ्चमनिर्देशो बलीयान्()" (शाक।प।९७) इति "दीङः" इति पञ्चम्याः "अचि" इति सम्पम्याः षष्ठीत्वे प्रकल्पते "तस्मादित्युत्तरस्य" १।१।६६ इत्यजादेरादिर्युडागमो भवति। "अचि" इति सप्तमीनिर्देशस्तूत्तरार्थः। ननु चात्र "एरनेकाचः" ६।४।८२ इति यणादेशे कर्तव्ये युडसिद्ध इति यणादेशेन भवितव्यम्(), ततश्चोपदिदीय इति न सिद्ध्येत्(), "उपदिद्ये" इत्यनिष्टं रूपं प्राप्नोति, अत आह--"विधानसामथ्र्यात्()" इत्यादि। यदि यणादेशे कत्र्तव्ये युटोऽसिद्धत्वं स्यात्(), तदा युटो विधानमनर्थकं स्यात्(); विशेषाभावात्()। कथं पुनर्विशेषाभावः, यावताऽसति हि युट()एकस्य यकारस्य श्रवणं भवति, सति तु द्वयोः? नैषोऽस्ति विशेषः; न हि व्यञ्जनपरस्यैकस्यानेकस्य वा हलः श्रवणं प्रति विशेषोऽस्ति। ये तु विशेषमिच्छन्ति, तन्मतेनास्माभिः पूर्वमेव यणादेशे युटः सिद्धत्वमन्यथा प्रतिपादितम्()। "उपदेदीयते" इति। "दीङ क्षये" (धा।पा।११३४), "असंयोगाल्लिट्? कित्()" १।२।५ इति कित्त्वम्(), लिटस्तझयोरेशिरेचो। "दीङः" इति षष्टीयं वा स्यात्(), पञ्चमी वेति द्वौ पक्षौ। तत्र यद्याद्यः पक्ष आश्रीयेत, तदा "आद्यन्तौ टकितौ" १।१।४५ इत्यादौ युटि कृते धातोरनिष्टं रूपमापद्येत; अत इदं षष्ठीपक्षे दूषणमालक्ष्य पञ्चमीपक्षं पुरस्कृत्याह--"दीङ इति पञ्चमीनिर्देशात्()" इत्यादि। पञ्चमीनिर्देशे हि सति "उभयनिर्देश पञ्चमीनिर्देशो बलीयान्()" (शाक।प।९७) इति "दीङः" इति पञ्चम्याः "अचि" इति सप्तम्याः षष्ठीत्वे प्रकल्पिते "तस्मादित्युत्तरस्य" १।१।६६ इत्यजादेरादिर्युडागमो भवति। "अचि" इति। सप्तमीनिर्देशस्तूत्तरार्थः। ननु चात्र "एरनेकाचः" ६।४।८२ इति यणादेशे कत्र्तव्ये युडसिद्ध इति यणादेशेन भवितव्यम्(), ततश्चोपदिदीय इति न सिद्ध्येत्(), "उपदिद्ये" इत्यनिष्टं रूपं प्राप्नोति। अत आह--"विधानसामथ्र्यात्()" इत्यादि। यदि यणादेशे कत्र्तव्ये पुटोऽसिद्धत्वं स्यात्(), तदा युटो विधानमनर्थकं स्यात्(); विशेषाभावात्()। कथं पुनर्विशेषाभावः, यावताऽसति हि युट()एकस्य यकारस्य श्रवणं भवति, सति तु द्वयोः? नैषोऽस्ति विशेषः; न हि व्यञ्जनपरस्यैकस्यानेकस्य का हला श्रवणं प्रति विशेषोऽस्ति। ये तु विशेषमिच्छन्ति, तन्मतेनास्माभिः पूर्वमेव यणादेशे युटः सिद्धत्वमन्यथा प्रतिपादितम्()। "उपदेदीयते" इति। यङः। "उपदानम्()" इति। ल्युट्(), "मीनातिमिनोतिदीङीं ल्यपि च" ६।१।४९ इत्यात्त्वम्()। "दीङ" इत्यनुबन्धनिर्देशो यङलुकि मा भूदित्येवमर्थः--देद्यतु, देद्युरिति। ननु चात्र "कास्प्रत्ययादाममन्त्रे" ३।१।३५ इत्यामा भवितव्यम्(), तेनाक्ङित्वादेव न भविष्यति? सत्यमेतत्(); अमन्त्रे न भविष्यति, मन्त्रे तु स्यादेव; तत्रामोऽभावात्()। अथ यङ्लुगन्तस्य मन्त्रे प्रयोगो न दृश्यते, तदा विस्पष्टार्थम्()॥
बाल-मनोरमा
दीङो युडचि क्ङिति ३३६, ६।४।६३

दीङो युडचि। "आद्र्धधातुके" इत्यधिकृतमचा विशेष्यते। तदादिविधिः। "दीङ" इति पञ्चमी। सप्तमी षष्ठ()र्थे।तदाह--दीङः परस्येत्यादिना। दिदी ए इति स्थिते परत्वात् "एरनेकाचः" इति यणि प्राप्ते नित्यत्वाद्युट्। टकार इत्। उकार उच्चारणार्थः। टित्त्वादाद्यवयवः। दिदीये इति रूपमिति भावः। ननु युटि कृतेऽपि तस्याऽसिद्धत्वाद्यण्दुर्वारः। तथाच दिद्()य्ये इति स्यात्। इकारो न श्रूयेत, यकारद्वयं श्रूयेतेत्यत आह---वुग्युटाविति।

तत्त्व-बोधिनी
दीङो युडचि क्ङिति २९२, ६।४।६३

दीङो। पञ्चमीत्यभिप्रायेण व्याचष्टे-- परस्येति। अजादेरिति। "डऋ सी"त्यत्रेव "उभयनिर्देशे पञ्चमीनिर्देशो बलीया"निति सप्तम्याः षष्ठीकल्पनम्। अचि किम्?। देदीयते। क्ङितीति किम्?। उपादानम्। आभीयत्वेनाऽसिद्धत्वमाशङ्क्याह-- वुग्युटाविति।

*वुग्युटावुवड()णोः सिद्धौ वक्तव्यौ। दिदीये इति। परमपि यणं बाधित्वा नित्यत्वादादौ युट्। सति तु यणि ईकारस्य श्रवणं न स्यादिति युटः सिद्धत्वमुक्तम्।