पूर्वम्: ७।१।६५
अनन्तरम्: ७।१।६७
 
सूत्रम्
उपात् प्रशंसायाम्॥ ७।१।६६
काशिका-वृत्तिः
उपात् प्रशंसायाम् ७।१।६६

उपादुत्तरस्य लभेः प्रशंसायां गम्यमानायां यकारादिप्रत्ययविषये नुमागमो भवति। उपलम्भ्या भवता विद्या। उपलम्भ्यानि धनानि। ण्यत्प्रत्ययान्तत्वातन्तस्वरितत्वम् एव। प्रशंसायाम् इति किम्? उपलभ्यम् अस्माद् वृषलात् किञ्चित्। पोरदुपधत्वाद् यत्प्रत्ययान्तम् इदम्।
न्यासः
उपत्प्रशंसायाम्?। , ७।१।६६

"प्रशंसायाम्()" इति। उपलभ्य इति स्तुतौ। अतिप्रशंस्य इत्यर्थः। "उपलभ्यम्()" इति। प्रप्तव्यमित्यर्थः॥
बाल-मनोरमा
उपात्प्रशंसायाम् ६६७, ७।१।६६

उपात्प्रशंसायाम्। उपात्परस्य लभेर्नुम् स्याद्यादौ प्रत्यये विवक्षिते प्रशंसायां गम्यमानायामित्यर्थः। उपलम्भ्यः साधुरिति। समीपे प्राप्य इत्यर्थः। साधुशब्दात् प्रशंसा गम्यते। इहापि नुमि कृते अदुपधत्वाऽभावाण्ण्यदेव। स्वरे विशेषः पूर्ववत्।

तत्त्व-बोधिनी
उपात्प्रशंसायाम् ५५५, ७।१।६६

उपात्प्रशंसायाम्। यादौ प्रत्यये विवक्षिते उपपूर्वाल्लभेर्नुम् स्यात्प्रशंसायाम्। सा चेह गम्यमानतया विशेषणम्। धात्वर्थस्तु प्राप्तिरेव,तेन यस्य प्राप्तिर्यस्माद्वा प्राप्तिः प्रशंसाहेतुर्भवति तदिहोदाहरणम्। विपरीतं तु प्रत्युदाहरणम्। इहापि "यादौ प्रत्यये विवक्षिते" इत्यर्थान्नुमि कृते ण्यति सत्यन्तस्वरितत्वं भवति। यति तु सत्युत्तरपदाद्युदात्तत्वं स्यात्। प्राचा तु स्वरे विशेषमनालोच्य "पोरदुपधा"दिति यतमेव स्वीकृत्य यति परे नुमिति व्याख्यातं, तदाकरिरोधादुपेक्ष्यमित्याहुः।