पूर्वम्: ७।२।२९
अनन्तरम्: ७।२।३१
 
सूत्रम्
अपचितश्च॥ ७।२।३०
काशिका-वृत्तिः
अपचितश् च ७।२।३०

अपचितः इति वा निपात्यते। अपपूर्वस्य चाय्तेः निष्ठायाम् अनिट्त्वं चिभावश्च निपात्यते। अपचितो ऽनेन गुरुः, अपचायितो ऽनेन गुरुः। क्तिनि नित्यम् इति वक्तव्यम्। क्तिनि नित्यं चिभावो निपात्यते। अपचितिः।
न्यासः
अपचितश्च। , ७।२।३०

"चायतेः" इति। चायृ पूजानिशामनयोः" (धा।पा।८८०) इति। अयं योगो यश्चिनोतेरपूर्वसय पूजायां वृतिं()त न प्रतिपद्यते तं प्रत्यारभ्यते। यस्तु प्रतिपद्यते तं प्रति नारब्धब्ध एव। तथा हि--चिनोतेरपचित इति भविष्यतीति, चायतेस्त्ववचायित इति। "वक्तव्यम्()" इति। व्याख्येयमित्यर्थः। तेत्रेदं व्याख्यानम्()--चकारोऽत्र क्रियते। स चानुक्तसमुच्चयार्थः। तेनापचितिरित्येतदपि निपात्यत इति। एतच्च निपातयता चायतेः क्तिनि नित्यं चिभावो वक्तव्यः
बाल-मनोरमा
अपचितश्च ८७८, ७।२।३०

अपचितश्च। "अपपूर्वस्य चिञो ण्यन्तस्य निष्ठायां चिभावो निपात्यते" इति भाष्यं। तदाह-- चायेर्निपातोऽयमिति।