पूर्वम्: ७।२।३७
अनन्तरम्: ७।२।३९
 
सूत्रम्
वॄतो वा॥ ७।२।३८
काशिका-वृत्तिः
वृ̄तो वा ७।२।३८

वृ इति वृङ्वृञोः सामान्येन ग्रहणम्। तस्मादुत्तरस्य ऋ̄कारान्तेभ्यश्च इटो वा दीर्घो भवति। वरिता, वरीता। प्रावरिता, प्रावरीता। ऋ̄कारान्तेभ्यः तरिता, तरीता। आस्तरिता, आस्तरीता। वृ̄तः इति किम्? कर्ष्यति। हरिष्यति। अलिटि इत्येव, ववरिथ। तेरिथ।
लघु-सिद्धान्त-कौमुदी
वॄतो वा ६१८, ७।२।३८

वृङ्वृञ्भ्यामॄदन्ताच्चेटो दीर्घो वा स्यान्न तु लिटि। परिता, परीता। परीष्यति, परिष्यति। पिपर्तु। अपिपः। अपिपूर्ताम्। अपिपरुः। पिपूर्यात्। पूर्यात्। अपारीत्॥
न्यासः
वृ?तो वा। , ७।२।३८

बाल-मनोरमा
वृ?तो वा २२८, ७।२।३८

वृ()तो वा। वृ ॠत् इत्यनयोः समाहारद्वन्द्वात्पञ्चम्येकवचनम्। वृ इति वृङ्()वृञोग्र्रहणम्। "आद्र्धधातुकस्ये"डित्यत इडित्यनुवृत्तं षष्ठ()आ विपरिणम्यते। "ग्रहोऽलिटि दीर्घ इत्यनुवर्तते। तदाह-- वृङ्वृञ्()भ्यामित्यादि। तरिता तरीतेति। इटो दीर्घविकल्पः।गुणे रपरत्वम्। तरिष्यति। तरतु। अतरत्। तरेत्। हलि चेति। आशीर्लिङि कित्त्वादृ()कारस्य गुणनिषेधे, इत्त्वे, रपरत्वे "हलि चे" ति दीर्घे, तीर्यादिति रूपमित्यर्थः। अतारीत् अतारिष्टामित्यादौ "वृ()तो वा" इति दीर्घे प्राप्ते--सिचि च। अत्रेति। परस्मैपदपरके सिचि वृङ्वृञ्()भ्यामृ()द्नताच्च परस्य इटो दीर्घो नेत्यर्थः। "न लिङी"त्यतो नेत्यनुवर्तते। अतारिष्टामिति। अतारिषुः। अतारिषम् अतारिष्व अतारिष्म।अतरिष्यत्। गुप गोपने इति। गोपनं--रक्षणम्। तिज निशाने इति। निशानं--तीक्ष्णीकरणम्। मान पूजायाम्। बध बन्धने इति। एते चत्वारोऽनुदात्तेत इति स्थितिः।

तत्त्व-बोधिनी
वृ?तो वा २००, ७।२।३८

वृ()तो वा। इह "आद्र्धधातुकस्ये"डित्यत इडित्यनुवर्तते, "ग्रहो लिटी"त्यतो लिटि दीर्घ इति च। तदाह---- इटो दीर्घो वेत्यादि।