पूर्वम्: ७।२।३८
अनन्तरम्: ७।२।४०
 
सूत्रम्
न लिङि॥ ७।२।३९
काशिका-वृत्तिः
न लिङि ७।२।३९

वृतः उत्तरस्य इटो लिङि दीर्घो न भवति। विवरिषीष्ट। प्रावरिषीष्ट। आस्तरिषीष्ट। विस्तरिषीष्ट।
लघु-सिद्धान्त-कौमुदी
न लिङि ६९५, ७।२।३९

वॄत इटो लिङि न दीर्घः। स्तरिषीष्ट। उश्चेति कित्त्वम्। स्तीर्षीष्ट। सिचि च परस्मैपदेषु। अस्तारीत्। अस्तारिष्टाम्। अस्तारिषुः। अस्तरीष्ट, अस्तरिष्ट, अस्तीर्ष्ट॥ कृञ् हिंसायाम्॥ १४॥ कृणाति, कृणीते। चकार, चकरे॥ वृञ् वरणे॥ १५॥ वृणाति, वृणीते। ववार, ववरे। वरिता, वरीता। उदोष्ठ्येत्युत्त्वम्। वूर्यात्। वरिषीष्ट, वूर्षीष्ट। अवारीत्। अवारिष्टाम्। अवरिष्ट, अवरीष्ट, अवूर्ष्ट॥ धूञ् कम्पने॥ १६॥ धुनाति, धुनीते। धविता, धोता। अधावीत्। अधविष्ट, अधोष्ट॥ ग्रह उपादाने॥ १७॥ गृह्णाति, गृह्णीते। जग्राह, जगृहे॥
न्यासः
न लिङि। , ७।२।३९

"वरिषौष्टेत्यादौ ["विवरिषीष्ट"--इति काशिकायामुदाहरणम्()]"लिङ्()सिचोरात्मनेपदेषु" ७।२।४२ इतीट्()। "विस्तरिषीष्ट" इति। कर्मण्यात्मनेपदम्()॥
बाल-मनोरमा
न लिङि ३५९, ७।२।३९

न लिङि। "वृ()तो वेत्यतो "वृ()त" इत्यनुवर्तते। लिङीति षष्ठ()र्थे सप्तमी। "आद्र्धधातुकस्ये"डित्यत इडित्यनुवृतं षष्ठ()आ विपरिणम्यते। "ग्रहोऽलिटी"त्यतो दीर्घ इत्यनुवर्तते। तदाह--- वृ()त इति। वृङ्वृञ्()भ्यामृ()कारान्ताच्चेत्यर्थः। विरषीष्टेति। इट्पक्षे "वृ()तो वे"ति प्राप्तो दीर्घो न भवति। वृषीष्टेति। इडभावपक्षे "उश्चे"ति कित्त्वान्न गुणः। अवारीदिति। लुङि परस्मैपदे सिचि वृद्धिः। अवारिष्टाम् अवारिषुः। "सिचि च परस्मैपदेषु" इति निषेधादिह "वृ()तो वे"ति न दीर्घः। लुङस्तङि सिचि "लिङ्सिचो"रिति इट्पक्षे "वृ()तो वे"ति दीर्घविकल्पं मत्वा आह--- अवरिष्ट अवरीष्टेति। अवृतेति। इडभावपक्षे "ह्यस्वादङ्गा"दिति सिचो लोपः। धुञ् कम्पन इति। ह्यस्वान्तोऽयमनिट्। षुञ इव रूपाणि। दीर्गान्तोऽप्ययमित्यादि। व्यक्तम्। अथ परस्मपैदिन इति। "राध साध संसिद्धा"वित्येतत्पर्यन्ता इत्यर्थ। "टु दु उपतापे" इत्यारभ्य "स्मृ इत्येके" इत्येतत्पर्यन्ता धातवो ह्यस्वान्ताः। हि गताविति। "प्रहिणोती"त्यत्र भिन्नपदत्वाण्ण्तवेऽप्राप्ते आह--