पूर्वम्: ७।२।९५
अनन्तरम्: ७।२।९७
 
सूत्रम्
तवममौ ङसि॥ ७।२।९६
काशिका-वृत्तिः
तवममौ ङसि ७।२।९६

युष्मदस्मदोः मपर्यन्तस्य तव मम इत्येतावादेशौ भवतो ङसि परतः। तव। मम। परमतव। परममम। अतितव। अतिमम।
लघु-सिद्धान्त-कौमुदी
तवममौ ङसि ३२८, ७।२।९६

अनयोर्मपर्यन्तस्य तवममौ स्तो ङसि॥
न्यासः
तवममौ ङसि। , ७।२।९६

अनन्तरं वक्ष्यमाणयोस्त्वमयोः प्राप्तयोरिवं वचनम्()॥
बाल-मनोरमा
तवममौ ङसि , ७।२।९६

अथ षष्ठी। तवममौ ङसि। "युष्मदस्मदोरनादेशे" इत्यतो "युष्मदस्मदो"रित्यनुवर्तते। मपर्यन्तस्येत्यधिकृतं। तदाह-अनयोरिति। युष्मदस्मदोरित्यर्थः। "त्वमावेकवचने" इत्यस्यापवादः।