पूर्वम्: ७।२।९४
अनन्तरम्: ७।२।९६
 
सूत्रम्
तुभ्यमह्यौ ङयि॥ ७।२।९५
काशिका-वृत्तिः
तुभ्यमह्यौ ङयि ७।२।९५

युष्मदस्मदोः मपर्यन्तस्य तुभ्य मह्य इत्येतावादेशुअ भवतो ङयि परतः। तुभ्यम्। मह्यम्। परमतुभ्यम्। परममह्यम्। अतितुभ्यम्। अतिमह्यम्।
लघु-सिद्धान्त-कौमुदी
तुभ्यमह्यौ ङयि ३२४, ७।२।९५

अनयोर्मपर्यन्तस्य। टिलोपः। तुभ्यम्। मह्यम्॥
न्यासः
तुभ्यमह्रौ ङयि। , ७।२।९५

बाल-मनोरमा
तुभ्यमह्रौ ङयि , ७।२।९५

तुभ्यमह्रौ ङयि। "ङे" इत्यस्य सप्तम्येकवचने ङयीति। "युष्मदस्मदोरनादेशे" इत्यतो युष्मदस्मदोरित्यनुवर्तते। मपर्यन्तस्येत्यधिकृतम्। तदाह--अनयोरिति। युष्मदस्मदोरित्यर्थः। अमादेश इति। "ङे प्रथमयोरित्यनेने"ति शेषः। शेषे लोप इति। अदो दस्य वा लोप इत्यर्थः। "अमि पूर्वः" इति मत्वाह--तुभ्यं मह्रमिति। परमतुभ्यमिति। तुभ्यमहृविध्योराङ्गत्वात्तदन्तेऽपि प्रवृत्तिरिति भावः। अतितुभ्यमिति। गौणत्वे तदप्रवृत्तौ मानाऽभावादिति भावः। युवाभ्याम् आवाभ्यामिति। तृतीयाद्विवचनवदिति भावः।