पूर्वम्: ७।३।१०३
अनन्तरम्: ७।३।१०५
 
सूत्रम्
ओसि च॥ ७।३।१०४
काशिका-वृत्तिः
ओसि च ७।३।१०४

ओसि परतो ऽकारान्तस्य अङ्गस्य एकारादेशो भवति। वृक्षयोः स्वम्। प्लक्षयोः स्वम्। वृक्षयोर् निर्धेहि। प्लक्षयोर् निधेहि।
लघु-सिद्धान्त-कौमुदी
ओसि च १४७, ७।३।१०४

अतोऽङ्गस्यैकारः। रामयोः॥
न्यासः
ओसि च। , ७।३।१०४

बाल-मनोरमा
ओसि च २०५, ७।३।१०४

"राम ओस्" इति स्थिते वृद्धौ प्राप्तायाम्--ओसि चेति। "अतो दीर्घो यञी"त्यतोऽत इत्यनुवर्तते। "अङ्गस्ये"त्यधिकृतम्। "बहुवचने झल्ये"दित्यत "ए"दित्यनुवर्तते। तदाह--ओसि पर इति। अतोऽङ्गस्येति। अदन्ताङ्गस्येत्यर्थः। "रामे ओस्" इति स्थितेऽयादेशं रुत्वविसर्गौ च सिद्धवत्कृत्याह--रामयोरिति। "राम आ"मिति स्थिते सवर्णदीर्घे प्राप्ते--ह्यस्वनद्यापः ह्यस्वश्च नदी च आप्चेति समाहारद्वन्द्वाद्दिग्योगे पञ्चमी। "परस्ये"त्यध्याहार्यम्। "अङ्गस्ये"त्यधिकृतं पञ्चम्या विपरिणम्य ह्यस्वादिभिर्विशेष्यते, अतस्तदन्तविधिः। "आमि सर्वनाम्नः" इत्यत "आमी"त्यनुवर्तते। तच्च "उभयनिर्देशे पञ्चमां निर्देशो बलीयान्" इति न्यायात् "तस्मादित्युत्तरस्ये"ति षठ()न्तं सम्पद्यते।