पूर्वम्: ७।३।१०४
अनन्तरम्: ७।३।१०६
 
सूत्रम्
आङि चापः॥ ७।३।१०५
काशिका-वृत्तिः
आङि चापः ७।३।१०५

आङिति पूर्वाचार्यनिर्देशेन तृतीयैकवचनं गृह्यते। तस्मिन्नाङि परतः, चकारादोसि च, आवन्ताङ्गस्य एकारादेशो भवति। खट्वया। मालया। खट्वयोः मालयोः। बहुराजया। कारीषगन्ध्यया। बहुराजयोः। कारीषगन्ध्ययोः। आपः इति पितो ग्रहणं किम्? कीलालपा ब्रह्मणेन। कीलालपोः ब्रह्मणकुलयोः। ङ्याब्ग्रहणे ऽदीर्घग्रहणम् इति वचनातिह न भवति, अतिखट्वेन ब्राह्मणकुलेन।
लघु-सिद्धान्त-कौमुदी
आङि चापः २१९, ७।३।१०५

आङि ओसि चाप एकारः। रमया। रमाभ्याम्। रमाभिः॥
न्यासः
आङि चापः। , ७।३।१०५

"आङिति पूर्वाचार्यनिर्देशेन" इत्यादि। आचार्या हि पूर्व आङिति तृतीयैकवचननिर्देशं कुर्वन्ति स्म। तस्मात्? तदीयेनाङिति निर्देशेन तृतीयैकवचनं गृह्रते। "खट्वया" इति टाबन्तस्योदाहरणम्()। "बहुराजया" इति। जावन्तस्योदाहरणम्()। "डाबुभाभ्यामन्यतरस्याम्()" ४।१।१३ इति डाप्()। "कारीषगन्ध्यया" इति। चाबन्तस्य। करीषस्येव गन्धोऽस्य "उपमानाच्च" ५।४।१३७ इतीत्()--करीषगन्धिः, "तस्यापत्यम्()" ४।१।९२ इत्यण्(), तस्य "अणिञोरनार्षयोः" ४।१।७८ इत्यादिना व्यङ्(), तदन्तात्? "यङश्चाप्()" ४।१।७४ इति चाप्()। "कीलालपा" इति। कीलालं पिबतीति "अतो मनिन्क्वनिब्वनिपश्च" ३।२।७४ इति विच्(), तदन्तात्? तृतीयैकवचनम्(), "आतो धातोः" ६।४।१४० इत्यकारलोपः। अथेह कस्मान्न भवति--खट्वामतिक्रान्तेनातिखट्वेनेति, उपसर्जनह्यस्वत्वे कृते स्थानिवद्भावात्? तस्य प्राप्नोति? इत्याह--"ङ्याब्ग्रहणम्()" इत्यादि। केचिदाहुः--ङ्याब्ग्रहणे दीर्घग्रहणमित्येतद्वचनं कत्र्तव्यम्(), तेन ह्यस्वत्वे कृते न भवति अपरे त्वाहुः--"हल्ङ्याब्भ्यो दीर्घात्()" ६।१।६६ इति योगविभागः कत्र्तव्यः, यावच्छास्त्रे ङ्यापोः कार्य तत्? सर्वं दीर्घयोर्यथा स्या ह्यस्वयोर्मा भूदिति; ततः "सुतिस्यपृक्तम्? ६।१।६६ इति द्वितीयो योगः, तत्र "हल्ङ्याग्भ्यः" इत्यनुवत्र्तत इति। चकारः "ओप्ति च" ७।३।१०४ इत्यनुकर्षणार्थः॥
बाल-मनोरमा
आङि चापः २८७, ७।३।१०५

आङि चापः। "ओसि चे"त्यनुवर्तते, "आप" इति षष्ठी,-"अङ्गस्ये"त्यदिकृतं तदन्तविधिः। "बहुवचने झल्ये"दित्यत एदित्यनुवर्तते। तदाह--आङि ओसि चेत्यादिना। "आङिति टासंज्ञां प्राचा"मित्युक्तम्। अलोऽन्त्यस्य एत्वेऽयादेश इत्याह-रमयेति। रमाभिरिति। "अतो भिसः" इति तपरकरणाअदैस्न। रमा-ए इति स्थिते-।

तत्त्व-बोधिनी
आङि चापः २४९, ७।३।१०५

आङि। चकारेण "ओसि चे"ति प्रकृतं परामृश्यत इत्याह----ओसि च पर इति। रमाभिरिति। नन्विह एकादेशस्य पूर्वान्तत्वेन ग्रहणादतो भिस एसित्यैस्प्राप्नोति। नच तपरत्वसामथ्र्यान्नैवमिति वाच्यम्, अकृतैकादेशे "विश्चपाभि"रित्यादौ कृतार्थत्वादिति चेन्मैवम्, अल्विधौ अन्तादिवच्चे त्यस्याऽप्रवृत्तेः।