पूर्वम्: ७।३।३७
अनन्तरम्: ७।३।३९
 
सूत्रम्
वो विधूनने जुक्॥ ७।३।३८
काशिका-वृत्तिः
वो विधूनने जुक् ७।३।३८

वा इत्येतस्य विधूनने ऽर्थे वर्तमानस्य जुगागमो भवति णौ परतः। पक्षेण उपवाजयति। विधूनने इति किम्? आवापयति केशान्। किमर्थं सूत्रम्, वज गतौ ण्यन्तस्य सिद्धत्वात्? वातेः पुक् मा भूतित्येवम् अर्थम्। पै ओवै शोषणे इत्येतस्य एतद् रूप्म्।
न्यासः
वो विधूनने जुक्?। , ७।३।३८

पुकि प्राप्ति जुग्विधीयते। "वा हत्येतस्य" इति। "वा गतिगन्धनयोः" (धा।पा।१०५०) इत्येतस्य। "विधूननेऽर्थे" इति। कम्पन इत्यर्थः। ननु "वज व्रज गतौ" (धा।पा।२५२,२५३) इत्यस्य धातोण्र्यन्तस्योपवाजयतीति सिद्धम्(), तत्किमर्थमेतत्()? वातेः पुग्मा भूदित्येवमर्थं जुको विधानम्()। "पै ओर्व शोषण इत्येतस्यैतद्रूपम्()" इति। ननु च लाक्षणिकस्याकारान्तत्वाम्(), अतो जुका न भवितव्यम्()? नैतदस्ति; इदानोमेव ह्रुक्तम्()--एतस्मिन्? प्रकरणे लक्षणप्रतिपदोक्तपरिभाषा नास्तीति॥
बाल-मनोरमा
वो विधूनने जुक् ४१८, ७।३।३८

वो विधूनने। "ओ वै शोषणे" इति धातोः कृतात्त्वस्य "व" इति षष्ठ()न्तम्। "अर्तह्यी" त्यतो णावित्यनुवर्तते। तदाह -- वातेरित्यादि। पुकोऽपवादो जुक्।केशान्वापयतीति। सुगन्धीकरोतीत्यर्थः। अत्र वैधातोः पुगेव। वाधातोस्त्विह न ग्रहणं, लुगविकरणत्वात्। केचित्तु वातेरेवाऽत्र ग्रहणं, न तु वेञो, नापि वै इत्यस्य, लाक्षणिकत्वात्, सानुबन्धकत्वाच्चेत्याहुः। आत्त्वविधायकसूत्रं स्मारयति - विभाषा लीयतेरिति। लीलीङोरात्त्वं वा स्यादेज्वि,ये ल्यि चेति व्याख्यातं प्राक् श्यन्विकरणे। तत्र लीयतेरिति यका निर्देशो, नतु श्यना। तेन "ली श्लेषणे" इति श्नाविकरणस्य, "लीङ्श्लेषणे" इति श्यन्विकरणस्य च ग्रहणमिति च प्रागुक्तं न विस्मर्तव्यम्।

तत्त्व-बोधिनी
वो विधूनने जुक् ३६६, ७।३।३८

वो विधू। लुग्विकरणाऽलुग्विकरणपरिभाषया "ओवै शोषणे" इत्यस्यैव ग्रहणं न तु "वा गतिगन्धनयो" रित्यस्य। लक्षणप्रतिपदोक्तपरिभाषा त्वस्मिन्प्रकरणे न प्रवर्तते इत्युक्तं प्राक्। "ओवै शोषणे" इत्यस्य रूपमिति वदन्वामनोऽप्यत्रानुकूलः। वज गताविति धातुना वाजयीति रूपे सिद्धे जुगागमस्य पुङ्ननिवृत्तिरेवेहापि फलम्। वातेरिति। "वायते" रिति वक्तुं युक्तम्। आत्वविधायकसूत्रं स्मारयति-- विभाषा लीयतेरिति। लीयतेरिति यका निर्देशो नतु श्यना। अन्यथा "विभाषा लीङ्" इत्येवाक्ष्यत्। तेन लीलीङोरुभयोरप्यात्वं भवति।