पूर्वम्: ७।३।४०
अनन्तरम्: ७।३।४२
 
सूत्रम्
स्फायो वः॥ ७।३।४१
काशिका-वृत्तिः
स्फायो वः ७।३।४१

स्फायित्येतस्य अङ्गस्य वकारादेशो भवति णौ परतः। स्फावयति।
न्यासः
स्फायो वः। , ७।३।४१

"स्फावयति" इति। "स्फायो, ओ प्यायी वृद्धौ" (धा।पा।४८७,४८८)॥
बाल-मनोरमा
स्फायो वः ४२५, ७।३।४१

स्फायो वः। णाविति शेषपूरणम्। "अर्तिह्यी"त्यतस्तदनुवृत्तेरिति भावः।