पूर्वम्: ७।३।८०
अनन्तरम्: ७।३।८२
 
सूत्रम्
मीनातेर्निगमे॥ ७।३।८१
काशिका-वृत्तिः
मीनातेर् निगमे ७।३।८१

मीनातेरङ्गस्य शिति प्रत्यये परतो ह्रस्वो भवति निगमविषये। प्रमिणन्ति व्रतानि। निगमे इति किम्? प्रमीणाति।
न्यासः
मीनातेर्निगमे। , ७।३।८१

"प्रमिणन्ति" इति। "हिनु मीना" ८।४।१५ इति णत्वम्(), "श्नाभ्यस्तयोरातः" ६।४।११२ इत्याकारलोपः। मीनातेरिह विकरणनिर्देशः "मीञ्? हिंसायाम्()" (धा।पा।१४७६) इत्यस्य क्रैयादिकस्य ग्रहणं यथा सात्(), "मीङ्? हिंसायाम्()" (धा।पा।११३७) इत्यस्य दैवादिकसय ग्रहणं मा भूदित्येवमर्थम्()। "मीञः" इति निर्देशो न कृतो वैचित्र्यार्थः॥