पूर्वम्: ७।४।१६
अनन्तरम्: ७।४।१८
 
सूत्रम्
अस्यतेस्थुक्॥ ७।४।१७
काशिका-वृत्तिः
अस्यतेस् थुक् ७।४।१७

अस्यतेरङ्गस्य थुगागमो भवति अङि परतः। आस्थत्, आस्थताम्, आस्थन्।
न्यासः
अस्यतेस्थु क्?। , ७।४।१७

"आस्थत्()" इति। "असु क्षेपणे" (धा।पा।१२०९) "अस्यतिवक्तिखक्यातिभ्योऽङ्()" ३।१।५२ इति च्लेरङादेशः॥
बाल-मनोरमा
अस्यतेस्थुक् ३५०, ७।४।१७

अस्यतेस्थुक्। शेषं पूरयति-- अङि परे इति। "ऋदृशोऽङी"त्यतस्तदनुवृत्तेरिति भावः। थुकि ककार इत्। उकार उच्चारणार्थः। कित्त्वादस्धातोरन्तत्यावयवः। ननु पुषादित्वादेवाऽस्यतेश्च्लेरङि सिद्धे "अस्यतिवक्तिख्यातिब्योऽङित्यत्राऽस्यतिग्रहणं व्यर्थमित्याशङ्क्य निराकरोति-- अस्य पुषादित्वादित। तङर्थमिति। "पर्यास्थते"त्यत्र आत्मनेपदेऽङर्थमस्यतिवक्तीत्यत्र अस्यतिग्रहणमित्यर्थः, पुषाद्यङः परस्मैपदमात्रविषयतया आत्मनपदे अप्रसक्तेरिति भावः। नन्वस्यतेः केवलपरस्मैपदित्वादात्मनपदं दुर्लभमित्यत आह-- तङ् तु उपसर्गादिति वक्ष्यते इति। "पदव्यवस्थाया"मिति शेषः। यसु प्रयत्ने।