पूर्वम्: ७।४।४३
अनन्तरम्: ७।४।४५
 
सूत्रम्
विभाषा छन्दसि॥ ७।४।४४
काशिका-वृत्तिः
विभाषा छन्दसि ७।४।४४

जहातेरङ्गस्य विभाषा हि इत्ययम् आदेशो भवति छन्दसि विषये क्त्वाप्रत्यये परतः। हित्वा शरीरं यातव्यम्। हात्वा।
न्यासः
विभाषा छन्दसि। , ७।४।४४