पूर्वम्: ७।४।८८
अनन्तरम्: ७।४।९०
 
सूत्रम्
ति च॥ ७।४।८९
काशिका-वृत्तिः
ति च ७।४।८९

तकारादौ प्रत्यये परतः चरफलोः अकारस्य उकारादेशो भवति चरणं चूर्तिः। ब्रह्मणः चूर्तिः। प्रफुल्तिः। प्रफुल्ताः सुमनसः। यङ्यङ्लुकोः, अभ्यासस्य इति च अनुवर्तमानम् अपि वचनसामर्थ्यादिह न अभिसम्बध्यते।
न्यासः
ति च। , ७।४।८९

अयङलुगर्थोऽयमारम्भः। "चूर्त्तिः" इति। "स्त्रियां क्तिन्()" ३।३।९४ पूर्ववद्दीर्घः। "प्रकृल्ताः" इति। "निष्ठा, तदन्ताट्टाप्(); जस्()। "वचनसामथ्र्यादिह नाभिसम्बध्यते" इति। यदीह यङ्लुग्ग्रहणमभ्यासग्रहणञ्चाभिसम्बध्येत, ततो वचनस्य वैयथ्र्यं स्यात्()। पूर्वेणैव यङयङ्लुकोरभ्यासस्य सिद्धत्वादित्यभिप्रायः॥
तत्त्व-बोधिनी
ति च ६९१, ७।४।८९

निवृत्त्यर्थमित्युपलक्षणम्। फुल्लवानिति रूपस्य, "निष्ठा च द्व्यजना"दित्याद्युदात्तस्य च सिद्ध्यर्थमिति बोध्यम्।

* उत्फुल्लसंफुल्लयोरुपसङख्यानम्। उत्फुल्लसंफुल्लयोरिति। यद्यपि प्रफुल्ल इतिवत् फुल्लेः पचाद्यचा सिद्धं, तथापि उत्फुस्तः, संफुस्त इति प्रयोगानिवृत्त्यर्थं वचनम्।