पूर्वम्: ८।१।३२
अनन्तरम्: ८।१।३४
 
सूत्रम्
अङ्गाप्रातिलोम्ये॥ ८।१।३३
काशिका-वृत्तिः
अङ्गाप्रातिलोम्ये ८।१।३३

अङ्ग इत्यनेन युक्तं तिङन्तं अप्रातिलोम्ये गम्यमाने नानुदात्तं भवति। अङ्ग कुरु। अङ्ग पच। अङ्ग पठ। अप्रातिलोम्ये इति किम्? अङ्ग कूज ३ वृषल, इदानीं ज्ञास्यसि जाल्म। कूजनमनभिमतमसौ कुर्वन् प्रतिलोमो भवति।
न्यासः
अङ्गाप्रातिलोभ्ये। , ८।१।३३

प्रातिलोभ्यम्()=प्रातकूल्यम्(), अनभिमतकारित्वमित्यर्थः। ततोऽन्यदप्रातिलोभ्यम्()नुकूलत्वम्(), अभिमतकारित्वमिति यावत्()। तस्मिन्? गम्यमानेऽयं प्रतिषेधः। "अङ्ग कुरु, ङ्ग पच" इति। अङ्गशब्दोऽयं निपात इहानुज्ञायां वत्र्तमानोऽप्रातिलोभ्यं गमयति। करोतेर्लोटि सिप्(), "सेह्र्रपिच्च" ३।४।८७, धातोर्गुणे कृते "अत उत्सार्वधातुके" ६।४।११० इत्युत्त्वम्(), "उत्तश्च प्रत्ययात्()" (६।४।१-६) इति हेर्लुक्()। अत्रोकारः प्रत्ययस्वरेणोदात्तः। "पच" इति। "अतो हेः" ६।४।१०५ इति लुक्()। धातुस्वरेणाद्युदात्तमेतत्()। प्रत्युदाहरणेऽङ्ग शब्दोऽमर्धे वत्र्तते। "आनुलभ्ये" इति वक्तव्येऽप्रातिलोम्ये इति वचनं वैचित्र्यार्थम्()