हि इत्यनेन युक्तं तिङन्तम् अप्रातिलोम्ये नानुदात्तं भवति। स हि कुरु। स हि पच। स हि पठ। अप्रातिलोम्ये इत्येव, स हि कूज वृषल, इदानीं ज्ञास्यसि जाल्म।
चकारोऽप्रातिलोभ्य इत्यस्यानुकर्षणार्थः। "स हि कुरु, स हि पच" इति। हिशब्दोऽत्रावधारणे, हेतौ वा वत्र्तते। प्रत्युदाहरणे त्वमर्धे॥
"उपानत्()" इति। "णह बन्धने" (धा।पा।११६६) क्विप्(), "नहिवृति"
६।३।११५ इत्यादिना दीर्घः। एवं परीणत्()" इति। अत्र णत्वं तु "उपसर्गादसमासेऽपि,
८।४।१४ इत्यादिना। प्रक्रियालाघवार्थं दकारे विधातव्ये धकारविधानम्()--नद्धेत्यत्र "झषस्तथोर्धोऽधः"
८।२।४० इति धत्वं यथा स्यादित्येवमर्थम्()। दकारे हि तन्न स्यात्(), दकारस्याझष्त्वात्()। "रदाभ्यां निष्ठातो नः"
८।२।४२ इत्येवमर्थं च, नकारो यथा न स्यादिति॥