पूर्वम्: ८।१।६२
अनन्तरम्: ८।१।६४
 
सूत्रम्
चादिलोपे विभाषा॥ ८।१।६३
काशिका-वृत्तिः
चदिलोपे विभाषा ८।१।६३

चादयः, न चवाहाहएवयुक्ते ८।१।२४ इति सूत्रनिर्दिष्टा गृह्यन्ते। तेषां लोपे प्रथमा तिङ्विभक्तिः नानुदात्ता भवति विभाषा। चलोपे शुक्ला व्रीहयो भवन्ति, भवन्ति, अवेता गा आज्याय दुहन्ति। भवन्ति इत्येतद् विकल्पेन न निहन्यते। वालोपे व्रीहिभिर्यजेत, यजेत, यवैर्यजेत। एवं शेषेष्वपि यथादर्शनम् उदाहार्यम्।
न्यासः
चादिलोपे विभाषा। , ८।१।६३

"सूत्रनिर्दिष्टा गह्रन्ते" इति। पूर्वतः प्रत्यासत्तेः। अत्र चवालोपे "चवायोगे प्रथमा" ८।१।५९ इति प्राप्ते विभाषा, परिशेषाणामप्राप्ते। "भवन्ति" इति। पक्षे प्रत्ययस्वरेण मध्योदात्तः। "यजेत" इति। अत्र पक्षेऽदुपदेशाल्लसार्वधातुकस्यानुदात्तत्वे कृते धातोकदात्तत्वे सत्याद्युदात्तत्वम्()॥