पूर्वम्: ८।२।१०१
अनन्तरम्: ८।२।१०३
 
सूत्रम्
उपरिस्विदासीदिति च॥ ८।२।१०२
काशिका-वृत्तिः
उपरिस्विदासीदिति च ८।२।१०२

अनुदात्तम् इति वर्तते। उपरिस्विदासीतित्येतस्य टेः अनुदत्तः प्लुतो भवति। अंधः स्विदासी३तुपरि स्विदासी३त्। अधः स्विदासीदित्यत्र विचार्यमाणानाम् ८।२।९७ इति उदात्तः प्लुतः, उपरि स्विदासीतित्यत्र तु अनेन अनुदात्तः।
न्यासः
उपरिस्विदासीदति च। , ८।२।१०२

इतिकरणः कार्यिणो निर्देशार्थः। कार्यं हि विधातुमवश्यं षष्ठ()आसौ निर्देष्टव्यः। इतिकरणेन वेति वार्थः प्रत्यवमुश्यते। शब्दप्रधानस्त्विहोपरिस्विदादिशब्दः कार्यं इष्यत इतीतिकरणेन निर्दिष्टः प्लुतो यथा विज्ञायेत। "अधःस्विदासीदित्यत्र" इत्यादि। अत्राधःस्विदासीत्(), उतोपरिस्विदासीवित्येतद्विचार्यते; तत्र पूर्वस्मिन्? वाक्ये "विचार्यमाणानाम्()" ८।२।९७ इत्यादिनोदात्तः प्लुतः, इतर()स्मस्त्वनेनानुदात्तः, तस्यैवापवादः। चकारस्य पूर्ववदेव प्रयोजनम्()॥