पूर्वम्: ८।२।३३
अनन्तरम्: ८।२।३५
 
सूत्रम्
नहो धः॥ ८।२।३४
काशिका-वृत्तिः
नहो धः ८।२।३४

नहो हकारस्य धकारादेशो भवति झलि परे पदान्ते च। नद्धम्। नद्धुम्। नद्धव्यम्। उपानत्। परीणत्।
लघु-सिद्धान्त-कौमुदी
नहो धः ३६१, ८।२।३४

नहो हस्य धः स्याज्झलि पदान्ते च॥
बाल-मनोरमा
नहो धः , ८।२।३४

अथ हान्ताः। "णह बन्धने" "णो नः"। उपनह्रते इति विग्रहे उपपूर्वात्संपदादित्वात्कर्मणि क्विप्। "नहिवृती"त्यादिना पूर्वपदस्य दीर्घः। उपानह्()शब्दः स्त्रीलिङ्गः--पादुकावाची। "पादूरुपानत्स्त्री" इत्यमरः। नहो धः। "हो ढः" इत्यतो "ह" इत्यनुवर्तते। "पदस्ये"त्यधिकृतम्। "स्कोः संयोगे"त्यतोऽन्ते इत्यनुवर्तते। "झलो झली"त्यतो "झली"त्यनुवर्तते। तदाह--नहो हस्येत्यादिना। "हो ढः" इति ढत्वापवादः। उपानदिति। उपानह्()शब्दात्सोर्हल्ङ्यादिलोपः, हस्य धः, जश्त्वचर्त्वे इति भावः। अत्र दकार एव तु न विहितः, तथा सति "नद्ध"मित्यत्र "रदाभ्या"मिति नत्वप्रसङ्गादित्यलम्। उपानद्भ्यामिति। हस्य धत्वे जश्त्वमिति भावः। उपानत्स्विति। धत्वे "खरि चे"ति चत्र्वमिति भावः। उष्णिहशब्दश्छन्दोविशेषवाची स्त्रीलिङ्गः। तुं व्युत्पादयितुमाह--ष्णिह प्रीतावित्यादिना। दलोपषत्वे इति। उदो दकारस्य लोपः, सस्य षत्वं च निपात्यत इत्यर्थः। न च "धात्वादेः षः सः" इति कृतसकारस्य "आदेशप्रत्यययोः" इत्येव षत्वे सिद्धे किं तन्नि पातनेन इति वाच्यं, सात्पदाद्यो"रिति निषेधबाधनार्थं षत्वनिपातनस्यावश्यकत्वात्। न च उष्णिह्()शब्दात्समासात्सुबुत्पत्तेः पूर्वं स्निहित्येतन्न पदम्। नितरां सकारस्य पदादित्वमिति वाच्यं, "पदादादि"रिति पक्षे षत्वनिषेधप्रसक्तेरित्याहुः। हस्य घ इति। घोषनादसंवारमहाप्राणसाम्यादिति भावः। नच "क्विन्प्रत्ययस्ये"ति कुत्वस्याऽसिद्धत्वाद्धो ढ इति ढत्वमेवोचितमिति वाच्यं, "षत्वापवादः कुत्व"मिति कैयटादिमते तुल्यन्यायतया षत्वस्येव ढत्वस्यापि कुत्वेन बाधात्। जश्त्वचर्त्वे इति। नच जश्त्वे कर्तव्ये "क्विन्प्रत्ययस्य कु"रिति कुत्वस्याऽसिद्धत्वं शङ्क्यम्, "उष्णिगञ्चु" इति निर्देशेन जश्त्वे कर्तव्ये कुत्वस्याऽसिद्धत्वाऽभावज्ञापनात्। वस्तुतस्तु "क्विन्प्रत्ययस्य कु"रिति कुत्वं षत्वापवादो न भवती"ति मूलकारमते तुल्यन्यायाड्ढत्वस्यापि नापवादः। ततश्च तद्रीत्या ढडगका इति बोध्यम्। इति हान्ताः।

अथ वान्ताः। द्यौरिति। दिव्शब्दः स्त्रीलिङ्गः। "द्यौदिवौ द्वे स्त्रिया"मित्यमरः। तस्मात्सुः, "दिव औ"दिति वकारस्य औकारः, इकारस्य यण्, रुत्वविसर्गौ। सुलोपस्य औत्त्वस्थानिभूतवकाराश्रयत्वेनाल्विधित्वात्स्थानिवत्त्वाभावान्न हल्ङ्यादिलोप इति भावः। द्युभ्यामिति। भ्यामादौ हलि "दिव उदि"त्युत्त्वमिति भावः। इति वान्ताः। अथ रान्ताः। गीरिति। "गृ? निगरणे"क्विप् , "ॠत इद्दातो"रितीत्त्वं रपरत्वं, गिर्शब्दात्सुबुत्पत्तिः, सोर्लोपः, र्लोरुपधायाः" इति दीर्घः, रेफस्य विसर्ग इति भावः। भ्यामादौ तु हलि "र्वोः" इति दीर्घः, गीभ्र्यामित्यादि। गीर्षु। एवं पूरिति। गीर्वदित्यर्थः। "पृ? पालनपूरणयोः" क्विप्, "उदोष्ठ()पूर्वस्ये"त्युत्त्वं, रपरत्वम्। पुर्शब्दात्सोर्लोपः, "र्वो"रिति दीर्घः, रेफस्य विसर्ग इति भावः। चतरुआआदेश इति। जश्शसोः स्त्रीलिङ्गस्य चतुर्शब्दस्य "त्रिचतुरोः स्त्रिया"मित्यनेनेति भावः। चतरुआ इति। परत्वा"च्चतुरनडुहो"रित्यमानं बाधित्वा चतसृभावे यण्। चतसृभावे कृते आम्तु न, "विप्रतिषेधे यद्बाधितं तद्बाधितमेवे"ति न्यायादिति स्थानिवत्सूत्रे भाष्ये स्पष्टम्। चतसृणामिति। "न तिसृचतसृ" इति दीर्घनिषेधः। इति रान्ताः। अथ मान्ताः। किम इति। किम्शब्दात्स्त्रीलिङ्गाद्विभक्तौ "किमः कः" इति प्रकृतेः कादेशे कृतेऽदन्तात्वाट्टाबित्यर्थः। सर्वावदिति। सर्वाशब्दवदित्यर्थः। "सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः" इति न, शब्दस्वरूपपरस्य गौणतया कदाऽपि सर्वनामत्वाऽभावादिति भावः।

तत्त्व-बोधिनी
नहो धः ३९२, ८।२।३४

नहो धः। "द"इत्येव तु नोक्तं, तथा हि सति "नद्ध"मित्यत्र "रदाभ्यां"मिति नत्वं स्यात्, "झषस्तथो"रिति च न स्यात्। नहो हस्येति। "हो ढः"इत्यतोऽनुवृत्तेः "अलोऽन्त्यस्ये"त्यनेन वा हस्यैवादेश इति भावः। "झलो झलि""पदस्य""स्कोः "संयोगाद्योरन्ते चे"त्यतो झल्पदान्तग्रहणान्यनुवर्तन्ते। तदाह--झलीत्यादि। झलि परतः पदान्ते वा विद्यमानेस्येत्यर्थः। उपानदिति। उपपूर्वान्नहेः संपदादित्वात्क्विपि "नहिवृती"ति पूर्वपदस्य दीर्घः। सोर्हङ्यादिलोपे धत्वम्। जश्त्वचर्त्वे। अत्रेदं बोध्यम्--सुष्ठु अनङ्वाहो यस्यामिति बहुव्रीहौ "स्वनङ्वा"निति पुंवदेव रूपम्ष। केचित्तु गौरादिङीषं कृत्वा "स्वनङ्वाही"त्युदाजह्युः। तदसत्। अनुपसर्जनाधिकारविरोधात्। गीरिति। "गृ? निगरणे", "गृ? शब्दे"इत्यस्माद्वा क्विप्। "ॠत इद्धतोः"इतीत्त्वे रपरत्वम्। "र्वोरुप धाया दीर्घः"इति दीर्घः। पूरिति। "पृ? पालनपूरणयोः""उदोष्ठ()पूर्वस्य"इत्युत्त्वम्। चतरुआ इति। इह "चतुरनडुहो"रित्याम्न भवति, परत्वादामं बाधित्वा चतरुआआदेसे कृते सकृद्गतिन्यायेन पुनस्तस्याऽप्रवृत्तेः। चतसृणामिति। "न तुसृचतसृ"इति न दीर्घः। सर्ववदिति। "तेन तुल्य"मिति वति। "सर्वनाम्नो वृत्तिमात्रे"इति पुंवद्भावः।