पूर्वम्: ८।२।३२
अनन्तरम्: ८।२।३४
 
सूत्रम्
वा द्रुहमुहष्णुहष्णिहाम्॥ ८।२।३३
काशिका-वृत्तिः
वा द्रुहमुहष्णुहष्णिहाम् ८।२।३३

द्रुह मुह ष्णुह ष्णिह इत्येतेषां धातूनां हकारस्य वा घकारादेशो भवति झलि परतः पदान्ते च। द्रुह द्रोग्धा, द्रोढा। मित्रध्रुक्, मित्रध्रुट्। मुह उन्मोग्धा, उन्मोढा। उन्मुक्, उन्मुङ्। ष्णुह उत्स्नोग्धा, उत्स्नोढा। उत्स्नुक्, उत्स्नुट्। ष्णिह स्नेग्धा, स्नेढा। स्निक्, स्निट्। द्रुहेः दादित्वाद् घत्वंनित्यं प्राप्तम्, इतरेषाम् अप्राप्तम् एव घत्वं विकल्प्यते।
लघु-सिद्धान्त-कौमुदी
वा द्रुहमुहष्णुहष्णिहाम् २५५, ८।२।३३

एषां हस्य वा घो झलि पदान्ते च। ध्रुक्, ध्रुग्, ध्रुट्, ध्रुड्। द्रुहौ। द्रुहः। ध्रुग्भ्याम्, ध्रुड्भ्याम्। ध्रुक्षु, ध्रुट्त्सु, ध्रुट्सु॥ एवं मुक्, मुग् इत्यादि॥
न्यासः
वा द्रुहमुहष्णुहष्णिहाम्?। , ८।२।३३

"द्रूहेः" इति। "द्रुह जिघांसायम्()" (धा।पा।११९७) इत्यस्य। "इतरेवाम्()" इति। "मुह वैचित्त्ये" (धा।पा।११९८), "ष्णुह उद्()गिरणे" (धा।पा।११९९), "ष्णिह प्रीतौ" (धा।प।१२००)-इत्येषामप्राप्तेः। पुनरेषं घत्वं स्यात्(), अदकारादित्वात्()॥
तत्त्व-बोधिनी
वा द्रुहमुहष्णुहष्णिहाम् २८७, ८।२।३३

वा द्रुह। "द्रुह जुघांसायाम्", "मुह वैचित्ये", "ष्णुह उ द्रिरणे", "ष्णिह प्रीतौ"। द्रुहेर्दादित्वान्नित्यं प्राप्ते अन्येषामप्राप्ते उभयत्र विभाषेयम्। ननु द्रुहादयो दिवादिष्वनेनैव क्रमेण पठ()न्ते, तत्र "वा द्रुहादीनाम्ित्येवास्तु, दिवाद्यन्तर्गणस्य पुषादेरन्तर्गणो रधादिस्तदन्तर्गणो द्रुहदिस्तु। रधादिगणसमाप्तये स्निहधातोरनन्तरं वृत्करणस्य कृतत्वेनाऽतिप्रसङ्गशङ्कया निरवकाशत्वात्। मैवम्, तथाहि सति यङ्लुकि दोध्रुडित्यादि न सिध्येत् "निर्दिष्टं यद्गणेन चे"ति निषेधात्।