पूर्वम्: ८।२।७०
अनन्तरम्: ८।२।७२
 
सूत्रम्
भुवश्च महाव्याहृतेः॥ ८।२।७१
काशिका-वृत्तिः
भुवश् च महाव्याहृतेः ८।२।७१

भुवसित्येतस्य महाव्याहृतेः छन्दसि विषये उभयथा भवति, रुर्वा रेफो वा। भुव इत्यन्तरिक्षम्, भुवरित्यन्तरिक्षम्। महाव्याहृतेः इति किम्? भुवो विश्वेषु सवनेषु यज्ञियः। भुवः इत्येतदव्यव्यम् अन्तरिक्षवाचि महाव्याहृतिः।
न्यासः
भुवश्च महाव्याह्मतेः। , ८।२।७१

भुवःशब्दः षष्ठ() तप्रतिरूपकमव्ययम्(), तस्य नित्यं रुत्वे प्राप्ते पक्षे रेफो यता स्यादित्येवमर्थमिदम्()। चकार उभयथेत्यस्यानुकर्षणार्थः। तेनोत्तरत्रानुवृत्तिर्न भवति। "भुवो वि()आस्य" इति। मूशब्दस्य षष्ठ()न्तस्य पञ्चम्यन्तस्य वा प्रयोगः। यद्येवम्(), लाक्षणिकत्वादेवास्य ["लाक्षणिकत्वादिनास्य"--प्रांउ।पाठः] न भविष्यति, तत्किमेन्निवृत्त्यर्थेन महाव्याह्मतिग्रहणेन? एवं तह्र्रेतज्ज्ञापयति--अनित्यलक्षणा प्रतिपदोक्तपरिभाषेति। तेन क्रापयतीत्यतर पुगागमः सिद्धो भवति, नित्यत्वे तु तस्य न स्यात्(), अस्याकारान्तस्य लाक्षणिकत्वात्()। कीदृशी भुवःशब्दो महाव्याह्मतिर्भवति? इत्याह--"भुवसित्येतत्()" इत्यादि। अन्तरिक्षं हि महत्(), तस्य व्याह्मतिः=उक्तितर्यस्मात्(); तस्मान्महाव्याह्मतिर्भवति॥