पूर्वम्: ८।२।६९
अनन्तरम्: ८।२।७१
 
सूत्रम्
अम्नरूधरवरित्युभयथा छन्दसि॥ ८।२।७०
काशिका-वृत्तिः
अम्नरूधरवरित्युभयथा छन्दसि ८।२।७०

अम्नसूधसवसित्येतेषां छन्दसि विषये उभयथा भवति, रुर्वा रेफो वा। अम्नस् अम्न एव, अम्नरेव। ऊधस् ऊध एव, ऊधरेव। अवस् अवः एव, अवेरेव। यदा रुत्वं तदा भोभगो ऽघो ऽपूर्वस्य यो ऽशि ८।३।१७ इति यकारः। छन्दसि भाषायां च विभाषा प्रचेतसो राजन्युपसङ्ख्यानं कर्तव्यम्। प्रचेता राजन्, प्रचेतो राजन्। अहरादीनां पत्यादिषु उपसङ्ख्यानं कर्तव्यम्। अहर्पतिः, अहः पतिः। गीर्पतिः, गीःपतिः। धूर्पतिः, धूःपतिः। विसर्जनीयबाधनार्थम् अत्र पक्षे रेफस्य एव रेफो विधीयते।
न्यासः
अभ्नरूधरवरित्युभयथा छन्दसि। , ८।२।७०

नित्यं रुत्वे प्राप्ते पक्षे रोऽपि यथा स्यादित्येवमर्थमिदम्()। सकारस्य रुत्वं कृत्वा निर्देशः--यस्मिन्? प्राप्ते रेफ उच्येते, तस्य रुत्पस्योभयथाग्रहणेन पक्षेऽबावो विज्ञायेत-इत्येवमर्थञ्च; इतरथा हि द्वेष्यमपि विज्ञायेत। यस्मिन्? प्राप्ते रुत्वमारभ्यते तस्य जश्त्वं पक्षेऽभ्यनुज्ञायत इति। "अम्न एव" इति। रुत्वपक्षे "भोभगो" ८।३।१७ इत्यादिना यकारः, तस्य "लोपः शाकल्यस्य" ८।३।१९ इति लोपः। "प्रचेतस उपसंख्यानम्(), अहरादीनां पत्यादिषूपसंख्यानम्()" इति। उभयत्रोपसंख्यानशब्दसय प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्()--इतिकरणः प्रदर्शनार्थः, एवम्प्रकारेष्वन्येष्वप्युभयथा भवति--रुत्वं वा रेफो वेते। तेन प्रचेतःशब्दस्य राजनि, अहरादीनाञ्च पत्यादिषूभयता भवति। "प्रचेतो राजन्()" इति। प्रकृष्टं चेतो यस्येति बहुव्रीहिः, आमन्त्रितैकवचनम्(), रुत्वम्(), "हशि च" ६।१।११० इत्युत्वम्(), "आद्गुणः" ६।१।८४। इत्युत्वं यथा स्यात्()। यदि रुरुदुत्पन्नस्य स्यात्(), उत्वविधौ "रोः" इत्युकारानुबन्धविशिष्टस्य रेफस्यानुवृत्तेः॥
न्यासः
अम्नरूधरवरित्युभयथा छन्दसि। , ८।२।७०

नित्यं रुत्वे प्राप्ते पक्षे रोऽपि यथा स्यादित्येवमर्थमिदम्()। सकारस्य रुत्वं कृत्वा निर्देशः--यस्मिन्? प्राप्ते रेफ उच्यते, तस्य रुत्पस्योभयथाग्रहणेन पक्षेऽभावो विज्ञायेत-इत्येवमर्थञ्च; इतरथा हि द्वेष्यमपि विज्ञायेत। यस्मिन्? प्राप्ते रुत्वमारभ्यते तस्य जश्त्वं पक्षेऽभ्यनुज्ञायत इति। "अम्न एव" इति। रुत्वपक्षे "भोभगो" ८।३।१७ इत्यादिना यकारः, तस्य "लोपः शाकल्यस्य" ८।३।१९ इति लोपः। "प्रचेतस उपसंख्यानम्(), अहरादीनां पत्यादिषूपसंख्यानम्()" इति। उभयत्रोपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्()--इतिकरणः प्रदर्शनार्थः, एवम्प्रकारेष्वन्येष्वप्युभयथा भवति--रुत्वं वा रेफो वेति। तेन प्रचेतःशब्दस्य राजनि, अहरादीनाञ्च पत्यादिषूभयता भति। "प्रचेतो राजन्()" इति। प्रकृष्टं चेतो यस्येति बहुव्रीहिः, आमन्त्रितैकवचनम्(), रुत्वम्(), "हशि च" ६।१।११० इत्युत्वम्(), "आद्गुणः" ७।१।८७। "प्रचेता राजन्()" इति। रेफे कृते तस्य "रो रि" ८।३।१४ इति लोपः, "ढ्रलोपे" ६।३।११० इत्यादिना दीर्घः। सम्बुद्ध्यन्तोदाहरणं रुत्वरेफयोर्विशेष सम्प्रतिपादनार्थम्(); असम्बुद्धौ हि रुत्वरेफयोरसिद्धत्वात्? "अत्वसन्तस्य चाधातोः" ६।४।१४ इति दीर्घत्वे तुल्यमेव रूपं भवति। "अहर्पत्तिः" इति। षष्ठीसमासः। "रोऽसुपि" ६।२।६९ इति रेफे कृते तस्य पक्षे रेफो विधीयते। "अह पत्तिः" इति। रेफस्य विसर्जनीये कृते "कुप्वोः क पौ च" ८।३।३७ इति पक्षे उपध्मानीयः। "गीर्पतिः" इति। "गृ? शब्दे" (धा।पा।१४९८)। सम्पदादित्वात्? क्विप्(), "ऋत इद्धातोः" ७।१।१०० इतीत्वम्(), रपरत्वम्()। "धूर्पतिः" इति। धुर्वेः क्विप्(), "राल्लोपः" ६।४।२१ इति वकारलोपः। अथ किमर्थं रेफस्यैव रेपो विधीयते? इत्याह--"विसर्जनीयवाधनार्थम्()" इत्यादि। "खरवसानयोः" ८।३।१५ इति विसर्जनीयः प्राप्नोति, तद्वाधनार्थ रेपस्यैव रेफो विधीयते॥