पूर्वम्: ८।३।२६
अनन्तरम्: ८।३।२८
 
सूत्रम्
नपरे नः॥ ८।३।२७
काशिका-वृत्तिः
नपरे नः ८।३।२७

नकारपरे हे परतः मकारस्य वा नकारादेशः भवति। किन् ह्नुते, किं ह्नुते। कथन् ह्नुते, कथं ह्नुते।
लघु-सिद्धान्त-कौमुदी
नपरे नः ८३, ८।३।२७

नपरे हकारे मस्य नो वा। किन् ह्नुते, किं ह्नुते॥
न्यासः
नपरे नः। , ८।३।२७

नः परो यस्मादिति बहुव्रीहिः। परग्रहणं नकारपरे यथा स्यादित्येवमर्थम्(), अन्यथा हि "ने नः" इत्युच्य माने नकार एव केवले परतो विज्ञायेत, न इति निमित्तान्तरोपादनाद्? हे इत्यस्य निवृत्तिः? नैतदस्ति; एवं हि वचनमिदमनर्थकं स्यात्()। कृते ह्रनुत्त्वारे नकारे परतः "अनुस्वारस्य ययि परसवर्णः" (८।४।५८) इत्यनेन नकारः सिध्यति? सत्यम्(); विकल्पार्थमेतत्()। अत्र हि यदानेन नकारो न क्रियते, तदा वचनसामथ्र्यात्? परसवर्णो न भवतीति विकल्पः सिध्यति। तस्मात्? परग्रहण कर्त्व्यम्()--नपरे हकारे यथा स्यात्(), केवले मा भूदिति। "किन्? ह्नुते" इति। "ह्नुङ्? अपनयने"; (धा।पा।१०८२), अदादित्वाच्छपो लुक्()। इह केचिच्चोदयन्ति--न इति प्रतिषेधः कस्मान्न विज्ञायत इति? एतच्चायुक्तम्(); सविसर्गस्य पाठात्? प्रतिषेधवाचिनश्च नकारस्य विसर्गानुपपत्तेः। अथाप्यविसर्गः पठ()ते? एवमप्ययुक्ता प्रतिषेधाशङ्का; प्राप्त्यभावात्()॥
बाल-मनोरमा
नपरे नः १२९, ८।३।२७

नपरे नः। "हे" इति "वे"-ति "म" इति चानुवर्तते। नः परो यस्मादिति विग्रहः। तदाह--नपरे इति। किन्ह्नुते इति। "ह्नुङ्-अपनयने" मस्य नत्वे रूपम्। तदभावे मोऽनुस्वारः।

तत्त्व-बोधिनी
नपरे नः १०३, ८।३।२७

नपरे। अयमपि बहुव्रीहिरेव। "हे" इति त्वनुवर्तते, तदाह--नपरे हकारे इति।