पूर्वम्: ८।३।५१
अनन्तरम्: ८।३।५३
 
सूत्रम्
पातौ च बहुलम्॥ ८।३।५२
काशिका-वृत्तिः
पातौ च बहुलम् ८।३।५२

पातौ च धातौ परतः पञ्चमीविसर्जनीयस्य बहुलं सकारादेशः भवति छन्दसि विसये। दिवस्पातु। राज्ञस्पातु। न च भवति। परिषदः पातु।
न्यासः
पातौ च बहुलम्?। , ८।३।५२

"दिवस्पातु" इति। पातेर्लोट्(), तिप्(), "एरुः" ३।४।८६ इत्युत्वम्(), अदादित्वाच्छपो लुक्()॥