पूर्वम्: ८।३।५२
अनन्तरम्: ८।३।५४
 
सूत्रम्
षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु॥ ८।३।५३
काशिका-वृत्तिः
षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु ८।३।५३

षष्थीविसर्जनीयस्य सकारादेशो भवति पति पुत्र पृष्ठ पार पद पयस् पोष इत्येतेषु परतः छन्दसि विषये। वाचस्पतिं विश्वकर्माणमूतये। पुत्र दिवस्पुत्राय सूर्याय। पृष्ठ दिवस्पृष्ठे धावमानं सुपर्नम्। पार अगन्म तमसस्पारम्। पद इलस्पदे समिध्यसे। पयस् सूर्यं चक्षुर्दिवस्पयः। पोष रायस्पोषं यजमानेषु धारय। षष्ठ्याः इति किम्? मनुः पुत्रेभ्यो दायं व्यभजत्।
न्यासः
षाष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु। , ८।३।५३

"वाचस्पतिम्()" इति। "तत्पुरुषे कृति बहुलम्()" ६।३।१३ इति बहुलवचनादकृत्यपयलुक्()॥