पूर्वम्: ८।३।८४
अनन्तरम्: ८।३।८६
 
सूत्रम्
मातुःपितुर्भ्यामन्यतरस्याम्॥ ८।३।८५
काशिका-वृत्तिः
मातुःपितुर्भ्यामन्यतरस्याम् ८।३।८५

मातुर् पितुरित्येताभ्याम् उत्तरस्य स्वसृशब्दस्य अन्यतरस्यां मूर्धन्यादेशो भवति समासे। मातुःष्वसा, मातुःस्वसा। पितुःष्वसा, पितुःस्वसा। मातुः पितुः इति रेफान्तयोरेतद् ग्रहणम्। एकदेशविकृतस्य अनन्यत्वाद् विसर्जनीयान्ता सकारान्तात् च षत्वं भवति। समासे इत्येव, वाक्ये मा भूत्। मातुः स्वसा इत्येव नित्यं भवति।
बाल-मनोरमा
मातुःपितुभ्र्यामन्यतरस्याम् ९६८, ८।३।८५

पूर्वण नित्ये प्राप्ते विकल्पोऽयम्। अलुक्पक्षे विशेषमाह--मातुःपितुभ्र्यामन्यतरस्याम्। "मातृपितृभ्यामन्यतरस्याम्। "मातृपितृभ्यां स्वसे"ति पूर्वसूत्रात्स्वसेत्यनुवर्तते। षष्ठ()र्थे प्रतमा। "सहेः साडः सः" इति सूत्रात्स इति षष्ट()न्तं पदमनुवर्तते। "अपदान्तस्य मूर्धन्यः" इत्यधिकृतम्। तदाह--आभ्यामिति। "मातुः" "पितु"रिति षष्ठ()न्ताभ्यामित्यर्थः। समासे इति। "समासेऽङ्गुलेः सङ्गः" इत्यतस्तदनुवृत्तेरिति भावः। "मातुःष्वसा""पितुःष्वसे"ति अलुकि षत्वे रूपम्। "मातुःस्वसा""पितुःस्वसे"त्यलुकि षत्वाभावे रूपम्। लुक्पक्षे त्विति। "विशेषो वक्ष्यते" इति शेषः।