पूर्वम्: ८।३।८३
अनन्तरम्: ८।३।८५
 
सूत्रम्
मातृपितृभ्यां स्वसा॥ ८।३।८४
काशिका-वृत्तिः
मातृपितृभ्यां स्वसा ८।३।८४

मातृ पितृ इत्येताभ्याम् उत्तरस्य स्वसृसकारस्य समासे मूर्धन्यादेशो भवति। मातृष्वसा। पितृष्वसा।
न्यासः
मातुपितृभ्यां स्वसा। , ८।३।८४

"मातृपितृभ्याम्()" इति। "अभ्यहितं पूर्व निपतति" (वा।१०९) इति मातृशब्दसय पूर्वेनिपातः। अनादेशसकारत्वादप्राप्तस्यैव षत्वस्येवं निपातनम्()। "मातृष्वसा, पितृष्वसः" इति षष्ठोसमासः॥
न्यासः
मातृपितृभ्र्यामन्यतरस्याम्?। , ८।३।८४

पूर्वेणाप्राप्ते विभाषयमारभ्यते; मातृपितृभ्यां केवलाभ्यां प्रकृतिप्रत्ययसमुदाययोर्मातुःपितुरित्येतयोरन्यत्वात्()। "मातुः ष्वसा, पितुःष्वसा" इति। "विभाषा स्वसृपत्योः" (६।३।२४) इत्यलुक्? षष्ठ्याः। उत्तरपदस्य रेफान्तस्य ग्रहणात्? तत्साहच्र्यात्? पूर्वपदस्यापि रेफान्तस्य ग्रहणं विज्ञायत इत्याह--"मातुः- पितुरिति रेफान्तयोः" इति। यद्येवम्(), रेफस्य विसर्जनोये कृते तस्य "वा शरि" (८।३।३६) इति पक्षे सकारे कृते विसर्जनीयान्तात्? सकारान्ताच्च न प्राप्नोति? इत्याह--"एकादेशविकृतस्य" इत्यादि। यदि रेफान्तयोग्र्रहण न स्यात्? ततो यदि विसरजनीयान्तयोरुपादानं क्रियेत तदा तथाभूताभ्यामेव स्यात्(), न सकारन्ताभ्याम्(); निर्देशस्य तन्त्रत्वात्()। अथापि सकारन्तयोग्र्रहणं स्यात्(); एवमपि तथाभूताभ्यामेव स्यात्(), न विसर्जनीयान्ताभ्याम्()। रेफान्तयोस्तु ग्रहणे स्वसृशब्दे परतो नियोगतो विकारेण भवितव्यमिति निदशस्य तन्त्रता नास्ति। तेन विसर्जनीयान्ताभ्यां सकारान्ताभ्याञ्च षत्व सिद्ध्यति।
बाल-मनोरमा
मातृपितृभ्यां स्वसा १०५५, ८।३।८४

मातृपितृभ्यां स्वसा। स्वसुरिति। सूत्रे षष्ठ()र्थे प्रथमेति भावः। मातृष्वसा पितृष्वसेति। लुक्पक्षे नित्यमेव षत्वम्। आदेश प्रत्ययसकारत्वाऽभावादप्राप्ते षत्वविधिरयम्। षत्वविधौ समासग्रहमांनुवृत्तेः फलं दर्शयति--असमासे त्विति। वाक्ये वैकल्पिकं षत्वमपि नास्तीत्यर्थः।

*****इति बालमनोरमायाम् अलुक्समासः*****

अथ तद्धितेष्वपत्याधिकारप्रकरणम्।

------------------------