पूर्वम्: ८।४।२४
अनन्तरम्: ८।४।२६
 
सूत्रम्
छन्दस्यृदवग्रहात्॥ ८।४।२५
काशिका-वृत्तिः
छन्दस्यृदवग्रहात् ८।४।२६

पुर्वपदातिति वर्तते। ऋकारान्तादवग्रहात् पूर्वपदादुत्तरस्य णकारादेशो भवति छन्दसि विषये। नृमणाः। पितृयाणम्। अत्र हि नृमणाः, पितृयाणम् इति ऋकारो ऽवगृह्यते। अवग्रहग्रहणं किमर्थम् उच्यते, यावता संहिताधिकार आ अध्यायपरिसमाप्तेः इत्युक्तम्? विषयोपलक्षणार्थम् अवग्रहग्रहणम्। अवगृह्यमाणाद् यथा स्यात्, अनवगृह्यमाणात् मा भूत्। अपदान्ते च अवग्रहो न अस्ति।
न्यासः
छन्दस्यृदवग्रहात्?। , ८।४।२५

अवगृह्रते विच्छिद्य पठ()त इत्यवग्रहः ऋच्चासाववग्रहश्चेति ऋदवग्रहः। ऋकारात्(), अवग्रहात्(), पूर्वपदात्()--इत्येतास्तिरुआः समानाधिकरणाः पञ्चम्यः। ऋकारमात्रं च पूर्वपदं न भवतीति सामथ्र्यात्पूर्वपदैकदेश ऋकारे पूर्वपदशब्दो वत्र्तत इति दर्शयति। समुदयेषु हि यवृत्ताः शब्दाः क्वचिदवयवेष्वपि वत्र्तन्त इति, यथा--पटो दग्ध इत्यत्र ["इत्यत"--प्रांउद्रितः पाठः] पटैकदेशे पटशब्दः। "नृमणाः" इति। नरि मनोऽस्येति बहुव्रीहिः। "अत्वसन्तस्य चाधातोः" ६।४।१४ इति दीर्घः। "पितृयाणम्()" इति। यान्त्यनेनेति यानम्(), करणे ल्युट्()। पितुर्यानमिति षष्ठीसमासः। "अत्र हि" इत्यादिना ऋकारस्यावग्रहत्वं दर्शयति। "अवग्रहग्रहणम्()" इत्यादि। यद्यवग्रहग्रहणं न क्रियते, ततोऽव्यपदान्तादनवग्रृह्रणाणात्? ऋकारात्? स्यात्(); अस्मिस्तु सति न वति। पदान्तस्यैवावग्रहो भवति, नापदान्तस्य। अत्र केषाञ्चिद्दर्शनम्()--अत्र "संहितायाम्()" ८।२।१०८ इत्यनुवत्र्तमानमपि नाभिसम्भध्यते, अवग्रहग्रहणात्()। तेन यदाऽवगृह्रत ऋकारस्तवैव णत्वं भवति, नान्यदेति। अपरे तु मन्यन्ते--यथाऽनृत्यन्नापि नत्र्तनयोग्यत्वान्नत्र्तक इत्युच्यते, तथाऽनवगृह्रमाणोऽपि ऋकारोऽवग्रहयोग्यत्वादवग्रह इत्युक्तः। अत एतदुक्तं भवति--अवग्रहयोग्यात्? ऋकाराण्णत्वं भवति, एवं सत्यवग्रहग्रहणे संहिताधिकारात्? संहितायामेव णत्वं भवति, नावग्रहादिति॥