पूर्वम्: ८।४।४८
अनन्तरम्: ८।४।५०
 
सूत्रम्
त्रिप्रभृतिषु शाकटायनस्य॥ ८।४।४९
काशिका-वृत्तिः
त्रिप्रभृतिषु शाकटायनस्य ८।४।५०

त्रिप्रभृतिषु वर्णेषु संयुक्तेषु शाकटायनस्य मतेन द्वित्वं न भवति। इन्द्रः। चन्द्रः। उष्ट्रः। राष्ट्रम्। भ्राष्ट्रम्।
न्यासः
त्रिप्रभृतिषु शाकटायनस्य। , ८।४।४९

"इन्द्रः" इत्यादौ "अनचि च" ८।४।४६ इति प्राप्तिः। "इन्द्रः, चन्द्रः, मन्द्रः" इति। "इदि परर्म()आर्ये" (धा।पा।६३), "चदि आह्लादे"[आह्लादे दीप्तौ च--धा।पा।] (धा।पा।६८) "मदि स्तुतिमोददस्यप्नकान्तिगतिषु" (धा।पा।१३)। "स्फायितञ्चि" (द।उ।८।३१) इत्यादिना रक्प्रत्ययः। "राष्ट्रः, भ्राष्ट्रः" [राष्ट्रम्(), भ्राष्ट्रम्()--काशिका] इति। "राजृ भ्राजृ दीप्तौ" [टु भ्राजृ दीप्तौ--धा।पा।] (धा।पा।८२२,८२३)। "सर्वधातुभ्यः ष्ट्रन्? (द।उ।८।७९) प्रत्ययः। व्राचादिसूत्रेण ८।२।३६ षत्वम्()। शाकटायनग्रहणं पूजार्थम्()। नित्य एवायं विधिः। अन्ययोत्तरसूत्रेणैव सिद्धत्वादस्यारम्भो निरर्थकः स्यात्()॥
बाल-मनोरमा
त्रिप्रभृतिषु शाकटायनस्य ५८, ८।४।४९

त्रिप्रभृतिषु शाकटायनस्य। त्रिचतुरादिषु हल्षु संयुक्तेषु #आद्यस्याऽचः परस्य यरो द्वित्वं शाकटायनमते। मतान्तरे तु नेत्यर्थः। इन्द्र इति नकारस्य द्वित्वविकल्पः। राष्ट्रमित्यत्र षकारस्य द्वित्वविकल्पः।