पूर्वम्: ८।४।७
अनन्तरम्: ८।४।९
 
सूत्रम्
वाहनमाहितात्॥ ८।४।८
काशिका-वृत्तिः
वाहनम् आहितात् ८।४।८

आहितवाचि यत् पूर्वपदं तत्स्थान् निमित्तादुत्तरस्यवाहननकारस्य णकार आदेशो भवति। इक्षुवाहणम्। शरवाहणम्। दर्भवाहणम्। वाहने यदारोपितम् उह्यते तदाहितम् उच्यते। आहितातिति किम्? दाक्षिवाहनम्। दाक्षिस्वामिकं वाहनम् इत्यर्थः।
न्यासः
वाहनमाहितात्?। , ८।४।८

उह्रतेऽनेनेति करणे ल्युट्()। अत एव निपातनादुपधादीर्घः। "इक्षुवाहणम्()" इति। इक्षूणां वाहनमिति कृद्योगलक्षमायाः कर्मणि षष्ठ्याः समासः। "वाहमे यदारोपितं तदाहितमुच्यते" इति। अनेकार्थत्वाद्धातूनां दधातिस्तत्र वत्र्तते। आहितमिति भूतकालोऽत्र न विवक्षितः। "कृत्यल्युटो बहुलम्()" ३।३।११३ इति कालसामान्ये क्तो विधीयते। तेन यदापि वाहने वाहनार्थमिक्ष्वादिकमारोपितं न भवति, तदर्थं तु केवलमुपकस्पितं भूतलस्थितम्(), तदापि भवत्येव। "दाक्षिवाहनम्()" इति। अत्र दाक्षिस्वामिकवाहनमेव प्रतीयते, न त्वाहितत्वम्()। अत एवाह"दाक्षिस्वामिकं वाहनमित्यर्थः" इति। अत्र शब्दशक्तिर्हेतुः॥
बाल-मनोरमा
वाहनमाहितात् १०३७, ८।४।८

वाहनमाहितात्। वाहने आधीयते वहनाय यत्, नतु स्वयमेवारोढुं शक्नोति तदाहितम्। तदाह--आरोप्येति। निमित्तादिति। रेफषकारान्यतरस्मादित्यर्थः। वाहननकारस्येति। वाहनस्य यो नकारस्तस्येत्यर्थः। अनेन सूत्रे वाहनमिति षष्ठ()र्थे प्रथमेति सूचितम्। इक्षुवाहणमिति। "इक्षवो हि वहनाय परैरारीप्यन्ते, नतु स्वयमेवारोढुं शक्नुवन्ती"ति तेषामाहितत्वं बोध्यम्। आरोपितेश्रुयुक्तं शकटादिवाहनमिति यावत्। इन्द्रवाहनमिति। ननु वहेः करणे ल्युटि कथमुपधादीर्घः, ञ्णित्प्रत्ययपरकत्वाऽभावादित्यत आह--वहेर्ल्युटीति।